भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 551, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 551
त्रयोदशः सर्गः२९९

विनां ग्रहणं कारयति। यद्वा,–निरत्ययमपराधेष्वविकारि निर्वाधं प्रेम कर्तुं स्वयं- ग्रहं कारयति। प्रबलः प्रियो वा परस्य धनं स्वयं गृह्णातीत्यर्थः। अन्यथा दोष- माह-इदं पूर्वोक्तं कारणद्वयं निरस्यतस्त्यजतः। पुंस इति शेषः। अधिकबले प्रबले विषये प्रार्थना तद्धनजिघृक्षा विपत्फलानर्थफलका। अशक्तस्याप्रियस्य सतः प्रबल- धनग्रहणाशा फणिशिरोमणिग्रहणसाहसवदनर्थाय कल्पत इत्यर्थः॥ ६१॥

हिन्दी — धनियोंमें सामर्थ्य स्वामीकी आज्ञाके बिना ही धनका ग्रहण कराता है अथवा अपराधमें विकार-रहित बाधारहित प्रेम धनका ग्रहण कराता है, इन दो कारणोंको त्याग करनेवाले पुरुषके धन ग्रहणकी इच्छा विपत्तिरूप फलवाली होती है॥ ६१॥

ननु शास्त्रार्थसंपत्त्या शक्तत्वाभिमानः, तत्राह--

अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः। जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम्॥ ६२॥

मल्लि०—अस्त्रवेदमिति। इह जगति तापसेषु तपस्विनां मध्ये। 'यतश्च निर्धारणम्' इति सप्तमी। जमदग्नेरपत्यं पुमान् जामदग्न्यः। गर्गादिभ्यो यञ्। तम्, अपहाय। परशुरामं विनेत्यर्थः। अस्त्रवेदं तत्त्वतोऽधिगम्य। भुजवीर्येण शालन्त इति भुजवीर्यशालिनः। उभयसंपन्नस्येत्यर्थः। शालनक्रियापेक्षया समान- कर्तृकत्वात् क्त्वानिर्देशः। कस्य चायुधं चरितः प्राप्तोऽर्थो येन तत् चरितार्थं सार्थकं गीयते। न कस्यापीत्यर्थः। अतस्त्वमपि तापसत्वादकिंचित्करस्य तेन सह सख्य- मेव मुख्यमिति भावः॥ ६२॥

हिन्दी—(हे महोदय!) इस लोकमें तपस्वियोंके मध्यमें परशुरामको छोड़- कर धनुर्विद्याको तत्त्वके साथ पाकर बाहुपराक्रमसे शोभित किस पुरुषका आयुध चरितार्थ होकर गाया जाता है?॥ ६२॥

ननु युष्मन्मृगवधशरहरणाभ्यां द्रोहिणो मम तेन कथं सख्यं स्यादित्याशङ्क्य सत्यं तथापि तावन्मृगवधापराधः क्षमिष्यत इत्याह--

अभ्यधायि मुनिचापलात्त्वया यन्मृगः क्षितिगतेः परिग्रहः। अक्षमिष्ट सदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता॥ ६३॥

मल्लि०—अभ्यधायीति। त्वया मुनिचापलात्। ब्राह्मणचापल्यादित्यर्थः। क्षितिपतेरस्मत्स्वामिनः। परिगृह्यत इति परिग्रहः। तेन स्वीकृत इत्यर्थः। 'परि-

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 551, कुल 707 में से · BharatKosha