किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 552, कुल 707 में से
संदर्भ में पढ़ें| २९६ | किरातार्जुनीयम् |
|---|
ग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।' इति विश्वः । यन्मृगोऽभ्यघानि अभिहत इति । हन्तेः कर्मणि लुङ् । तद् हननम् । अयमस्मत्स्वामी । अक्षमिष्ट सोढवानेव । तथा हि—प्रमाद्यताम्, अविमृश्यकारिणामित्यर्थः । दोषमपराधम् । अज्ञताऽज्ञानिता संवृणोति आच्छादयति । नाऽस्यापराधो गण्यत इत्यर्थः ॥ ६३ ॥
हिन्दी—( हे महोदय ! ) आपने ब्राह्मणजातिकी चञ्चलतासे हमारे स्वामीसे स्वीकृत जिस जानवर ( वराह ) को मार डाला है, उस हत्याको हमारे स्वामीने सहन कर लिया है, क्योंकि प्रमाद करनेवालोंके अपराधको अज्ञता छिपा देती है ॥ ६३ ॥
अथ सुहृद्भावेन हितमुपदिशति—
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् ।
आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ ६४ ॥
**मल्लि०—**जन्मेति । जन्म सत्कुलप्रसूतिः, वेषो जटावल्कलादिः, तपो नियमः, तेषां विरोधिनीं विरुद्धाम् । अमूमेवंविधाम् । अपक्रियामपकारम् । पुनः । इतः परमित्यर्थः । मा कृथाः मा कुरु । करोतेः कर्तरि माङि लुङ् । 'वयोवृद्धधर्मवाग्वेषश्रुताभिनयकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्यामशठां तथा ॥' इति स्मरणात् । उक्तवैपरीत्ये दोषमाह—आपदिति । हि यस्मात् अपथे वर्तमानं दुर्मतिम् । पुरुषमिति शेषः । उभौ लोकौ दूषयति हन्तीति उभयलोकदूषणी । 'तद्धितार्थ-'त्यादिनोत्तरपदसमासः । आपत् । एति प्राप्नोति । समासविषय 'उभ' शब्दस्थाने 'उभय' शब्दप्रयोग एव साधुः । यदाह कैयटः—'उभादुदात्तो नित्य'मिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय 'उभ' शब्दस्य प्रयोगो मा भूत, 'उभय' शब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति' इति ॥ ६४ ॥
**हिन्दी—**उत्तमवंशमें उत्पत्ति, जटावल्कल आदि वेष और तपस्या इनके विरुद्ध इस प्रकारके अपकारको अबसे मत कीजिए, क्योंकि अमार्गमें वर्तमान दुर्बुद्धिवाले पुरुषको यह लोक और परलोक दोनों लोकोंको दूषित करनेवाली आपत्ति प्राप्त होती है ॥ ६४ ॥
यदुक्तम् 'अभ्यघानि' ( श्लो० ६३ ) इति, तदेव स्फुटयति—
यष्टुमिच्छसि पितॄन् सांप्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग ! विशिखं न्यदीविशः ? ॥ ६५ ॥