भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 560, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 560
३०४किरातार्जुनीयम्

दास्कन्दनरूपं कर्म कर्तुमुद्यतः स भूपस्तमहोपतिर्भवता। धूर्येणेति भावः। कि न वारितो न निवारितः। निवारणे हेतुमाह—भूतिमिच्छता इहामुत्र च श्रेयोऽर्थिना सहचरितावर्थनाशौ स्वार्थाऽनर्थौ यस्य तेन सहार्थनाशेन। समानसुखदुःखेनेत्यर्थः। अनुजीविना भृत्येन नृपः स्वामी हिते नियोज्यो नियम्यः खलु। अन्यथा स्वामि-द्रोहपातकी श्रेयसो भ्रष्टः स्यादिति भावः ॥ ८ ॥

हिन्दी—सिद्धिके विरोधी ऐसा कर्म (मेरा अतिक्रमण) करनेको तत्पर उस राजाको तुमने क्यों निवारण नहीं किया? कल्याणकी इच्छा करनेवाले और समान सुख-दुःखका अनुभव करनेवाले भृत्यको राजाको हितमें नियोजन करना चाहिए ॥ ८ ॥

तर्हि नो बाणः क्व गतः, किमत्र वा न्याय्यम्? तत्राह—

ध्रुवं प्रणाशः प्रहितस्य पत्रिणः, शिलोच्चये तस्य विमार्गणं नयः।
न युक्तमत्रार्यजनातिलङ्घनं, दिशत्यपायं हि सतामतिक्रमः ॥ ९ ॥

मल्लि०ध्रुवमिति। प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम्। प्रहितस्येदेदिति भावः। तस्य नष्टस्य पत्रिणः शिलोच्चये शैले। 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः। विमार्गणमन्वेषणं नये न्यायः। 'अन्वेषणं विचयनं मार्गणं मृगणा मृगः' इत्यमरः। अत्र विषये आर्यजना-तिलङ्घनं सज्जनव्यतिक्रमो न युक्तम्। हि यस्मात्कारणात् सतामतिक्रमोऽपायमनर्थं दिशति ददाति ॥ ९ ॥

हिन्दी—फेंके गये बाणका अदर्शन निश्चित है, उसका पर्वतमें अन्वेषण करना न्याय है। इस विषयमें सज्जनका लंघन करना उचित नहीं है, क्योंकि सज्जनोंका लंघन अनर्थ करनेवाला होता है ॥ ९ ॥

यदुक्तम् 'हर्तुमर्हसि' (१३।०४) इति, तत्रोत्तरमाह—

अतीतसंख्या विहिता ममाग्निना शिलीमुखाः खाण्डवमत्तुमिच्छता।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ॥ १० ॥

मल्लि०अतीतेति। खाण्डवमिन्द्रवनम् अत्तुं भक्षयितुम्, इच्छताऽग्निना ममातीतसंख्याः शिलीमुखाः शरा विहिता दत्ताः। खाण्डवदाहेऽक्षयतूणीरदानमुक्तं भारते। अतोऽमरसायकेष्वपि अनादृतस्यादररहितस्य। भावे क्तः। ततो नञा बहुव्रीहिः। मम कथं शैलजनाशुगे किरातबाणे धृतिरास्था स्थिता। न कथंचि-दित्यर्थः। अतो नापहारशङ्का कार्येत्यर्थः ॥ १० ॥