भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 177, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 177

( १६० ) PURPORT IN SANSKRIT —संसारस्वामिन शिवस्य प्राप्त्यर्थे सा नानाविधानुपायानकरोत्, परं सर्वेषूपायेषु विफलेषु सत्सु ' सर्वमपि तपसाधिगम्यम् ' इति विचारयन्ती पार्वती पितुराज्ञामादाय स्वसखीभिरस्माभिः सार्धं तप आचरितुमिदं तपोवनमागता ॥ ५९ ॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ ६० ॥ द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतजन्मसु कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तप. साक्षिषु तपसः साक्षिषु साक्षात् द्रष्टृषु एषु द्रुमेषु अपि फलं दृष्टं लब्धम् । जनितमित्यर्थ । अस्याः पार्वत्याः च शशिमौलिसंश्रय चन्द्रशेखरविषयः मनोरथः तु प्ररोहाभिमुखः अङ्कुरोन्मुखः अपि न दृश्यते । ' प्ररोहस्त्वङ्कुरः ' इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थ ॥ ६० ॥ PROSE ORDER :-सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु अपि फलं दृष्टम्, शशिमौलिसंश्रयः अस्याः मनोरथः च प्ररोहाभिमुखः अपि न दृश्यते ॥ ६० ॥ NOTES :-सख्या-by our friend Parvati कृतजन्मसु- कृतं जन्म येषां ते, तेषु which were given birth to , which were planted ( by her ) तपःसाक्षिषु—तपः साक्षिषु which have been the witness of her penance. For the word साक्षिन् see notes on तपःसाक्ष्ये in verse 25