कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 179, कुल 268 में से
संदर्भ में पढ़ें( १६२ ) HINDI TRANSLATION :—हमारी सहेली द्वारा अपने आप लगाये हुए, तप के साक्षीभूत इन वृक्षों में भी फल लग गये, ( परन्तु ) शिव सम्बन्धी इसकी इच्छा अभी अङ्कुरित होने वाली भी नहीं दीखती ॥ ६० ॥ ENGLISH TRANSLATION :—Fruits have been seen even on these trees which were planted by our friend herself and which have been the witnesses of her austerities, but the longing of her heart, which has for its basis the moon-crested God, does not seem even about to sprout. 60. PURPORT IN SANSKRIT :—तपश्चरन्त्या अस्याः पार्वत्या दीर्घः कालो जातः । अत्रागत्य चानया स्वहस्तेनैव ये वृक्षा आरोपितास्ते फलिताः दृश्यन्ते, परमेतावत्तपस्याचरणानन्तरमपि शिवसम्बन्धिनी अस्याः भावना लेशमात्रमपि साफल्यान्मुखी न दृश्यते ॥ ६० ॥ न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥ ६१ ॥ नेति। प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवः तपःकृशां तपसा कृशां क्षीणां अतएव सखीभिः अस्रोत्तरं अश्रुप्रधानं यथा भवति तथा ईक्षितां इमां नः सखीं तदवग्रहक्षतां तस्येन्द्रस्यावग्रहेणाना- वृष्ट्या क्षतां पीडिताम् । ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः। ‘अवे ग्रहो वर्षप्रतिबन्धे’ इत्यप् प्रत्ययः। सीतां कृष्ट- भुवम् । ‘सीता लाङ्गलपद्धतिः’ इत्यमरः। वृषा वासवः इव।