भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 227, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 227

( २१० ) विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ७८ ॥ देवस्य लौकिकं अलौकिकं च प्रमाधनं नास्तीत्याशयेनाह— विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेः अष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुद्भासत इति विभूषणोद्भासि स्यात् । पिनद्धभोगि आमुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः । ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।’ इत्यकारलोपः । गजाजि- नालम्बि स्यात् । अथ वा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् ‘अथ इन्दुशेखरं वा स्यात् । न अवधार्यते न निर्धार्यते । सर्वं सम्भवतीत्यर्थः । एतेन ‘त्वमेव तावत्’ (५।६७) श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥ PROSE ORDER :—विश्वमूर्तेः वपुः न अवधार्यते, विभू- षणोद्भासि वा पिनद्धभोगि, गजाजिनालम्बि वा दुकूलधारि, कपालि वा अथवा इन्दुशेखरं स्यात् ॥ ७८ ॥ NOTES :—विश्वमूर्तेः—विश्वं मूर्ति (स्वरूपं) यस्य स विश्व- मूर्ति तस्य विश्वमूर्ते of him whose form is the universe i.e., of Shiva न अवधार्यते—न निश्चीयते is not known definitely, √धृ to hold when preceded by अव means ‘to determine accurately’ विभूषणोद्भासि । उद्भासि—( उत्+ √भास्+णिनिः) उद्भासते इति उद्भासि (शोभि) shining विभूषणै उद्भासते इति विभूषणोद्भासि resplendent with orna- ments. पिनद्धभोगि । पिनद्ध—(अपि+√नह् to bind+क्त )