कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 245, कुल 268 में से
संदर्भ में पढ़ें( २२८ ) चिह्न है ऐसे ( शिव ) ने अपना रूप धारण कर मुस्कराते हुये उसको पकड़ लिया ॥ ८४ ॥ ENGLISH TRANSLATION :-Or, I shall go from here, so saying the maiden, with the bark-garment slipping from her breasts, started, (just then) the bull-emblemed God, assuming his own form, held over, with a smile. 84 PURPORT IN SANSKRIT :-' हे सखि ! यदि चायं ब्रह्म- चारी अस्मात्स्थानादन्यत्र न गमिष्यति तर्ह्यहं स्वयमेवान्यत्र यास्यामि ' इति कथयित्वा पार्वती चलितुमुद्यताभूत् वल्कलञ्च रयवशात्तत्स्तनाभ्यामधः स्रस्तम्, परं तस्मिन्नेव काले शिवो निजां यथार्थामाकृतिमाश्रित्य मन्दहासञ्च कृत्वा पार्वतीं जग्राह ॥ ८४ ॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५ ॥ तमिति । तं देवं वीक्ष्य वेपथुमती । सरसांगयष्टिः खिन्नगात्री । महादेवदर्शनेन देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय अन्यत्र विन्यासाय उद्धृतं उत्क्षिप्तं पदं अङ्घ्रि उद्वहन्ती । शैलाधिराज- तनया पार्वती मार्गाचलव्यतिकराकुलिता मार्गेऽचलस्तस्य व्यति- करेण समाहत्या अवरोधेनेति यावत् । आकुलिता संभ्रमिता सिन्धुः नदी इव । ' देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम् ' इत्यमरः । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलका- वृत्तमेतत् ॥ ८५ ॥