भारतकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 43, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 43

( २४ ) यथा प्रसिद्धैर्मधुरं शिरोरुहैः जटाभिरप्येवमभूत्तदाननम् । न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥ यथेति । तस्य देव्या आननं तदाननं प्रसिद्धैः भूषितै। प्रसिद्धौ ख्यातभूषितौ ' इत्यमरः । रोहन्तीति रुहाः । ' इगुपधज्ञाप्रीकिर. कः' इति कः प्रत्यय । शिरसि रुहाः तैः शिरोरुहैः मूर्धजै. यथा मधुरं प्रिय अभूत् । 'स्वादु प्रियौ तु मधुरौ ' इत्यमरः । जटाभि अपि एवं मधुरमभूत् । तथा हि पङ्कजं पद्म षट्पदश्रेणिभिः भ्रमरपङ्क्तिभि एव न किन्तु सह शैवलासङ्गेन शैवलासङ्गमपि । 'तेन सहेति तुल्य- योगे इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ॥६॥ PROSE ORDER :—तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरं अभूत्, जटाभिः अपि एवं (अभूत्) । पङ्कजं षट्पदश्रेणिभिः एव न प्रकाशते (किन्तु ) सशैवलासङ्गं अपि ( प्रकाशते ) ॥ ६ ॥ NOTES:—तदानन—तस्याः आननम् । प्रसिद्धैः—सुसज्जितैः, अलङ्कृतैः decorated. प्रसिद्ध means 'famous' and 'decorated' Cf. 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । शिरोरुहैः —रोहन्ति इति रुहा ( √रुह् to grow+कः) which grow. शिरसि रुहाः शिरोरुहा ( केशाः ) which grow on the head i. e hair. क suffix is added by 'इगुपधज्ञाप्रीकिरः कः' पा० ३.१ १३५ । मधुरं—प्रियं, सुन्दरम् pretty. मधुरं means 'sweet' as well as 'agreeable.' Cf. स्वादुप्रियौ तु मधुरौ' इत्यमरः । अभूत्—was. Aorist (लुङ्) of √भू' to be.' जटाभिः—by means of matted hair. The difference between ordinary hair and matted hair ( जटा ) is that