कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 96, कुल 268 में से
संदर्भ में पढ़ें( ७७ ) विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ ३० ॥ अथेति । अथ अनन्तरं अजिनाषाढधरः अजिनं कृष्णमृगत्वक् आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । ‘पालाशो दण्ड आषाढः’ इत्यमरः ‘विशाखाषाढाद्दण्डमन्थदण्डयोः’ इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः । प्रगल्भवाक् प्रौढवचनः, ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवर्चसेनेत्यर्थः । ज्वलन् इव स्थितः । इवशब्दा निर्धार- णार्थः । कश्चिद् अनिर्दिष्टः जटिलः जटावान् । ब्रह्मचारीति शेषः पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धः बद्धशरीरः । शरीरधा- नित्यर्थः । आहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमः यथा ब्रह्मचर्याश्रम इव । यथाशब्द इवार्थे । तपोवनन् । देव्या इति शेषः । विवेश प्रविष्टवान् ॥ ३० ॥ PROSE ORDER :—अथ अजिनाषाढधरः प्रगल्भवाग् ब्रह्म- मयेन तेजसा ज्वलन्निव कश्चिज्जटिलः शरीरबद्धः प्रथमाश्रमः यथातपोवन विवेश ॥ ३० ॥ NOTES :—अथ—तदनन्तरम्, after this, i. e., when Parvati had been successful in performing such penance as was far superior to that of other ascetics. अथ is used to iutroduce a new topic ‘मङ्गलानन्तरारम्भ- प्रश्नकात्स्न्र्येष्वथो अथ’ इत्यमरः । अजिनाषाढधरः । अजिनं- कृष्णमृगचर्म a black antelope's skin. ‘अजिनं कृत्तिः चर्म’ इत्यमरः । आषाढः—( अषाढ+अण् ) पलाशदण्डः a staff of Palasha tree. ‘पालाशो दण्ड आषाढः’ इत्यमरः । It is so called because it is carried by an ascetic during certain religious observances in the month of अषाढ । The कु० सं०—७