लघुसिद्धान्तकौमुदी (वरदराजाचार्य - भैमी एवं सान्वय हिन्दी व्याख्या सहित)
Laghu Siddhanta Kaumudi of Varadaraja with Hindi Commentary
आचार्य वरदराज द्वारा
पृष्ठ 599, कुल 633 में से
संदर्भ में पढ़ें५८४ भैमीव्याख्योपेतायां लघुसिद्धान्तकौमुद्याम् (११) निम्नस्थ प्रश्नो का संक्षिप्त उत्तर दें— (क) चादयोऽसत्त्वे में 'असत्त्वे' क्यो कहा गया है ? (ख) 'दण्' और 'च' मे तथा 'नञ्' और 'न' मे अन्तर बताएं । (ग) तिरःकृत्वा और तिरस्कृत्य मे प्रक्रिया-भेद स्पष्ट करें । ———.०.——— शून्य-वेद-नभो-नेत्रे वैक्रमे शुभवत्सरे । आश्विनस्य सिते पक्षे परिवृत्तिंस्वरूपधृक् ॥१॥ सर्वत्र शोधितो यत्नाद् बहुत्र परिवर्धितः । समापन्ननवाऽऽकारः पुम्गद्यः प्रकाशितः ॥२॥ पूर्वमुद्रितभागेऽस्मिन् संशुद्धिपरिवर्धने । विदुषा लेखकेनैव कृते नाऽन्येन केनचित् ॥३॥ श्रमस्यास्य महत्मूल्यं ज्ञास्यन्ति वीतमत्सराः । रत्नस्यार्घे प्रमाणं हि ज्ञातारो न पृथग्जनाः ॥४॥ विद्वत्सु छात्रवर्गेषु गवेषणपरेषु च । आदरं प्राप्नुयान्नूनं मत्कृतिः पूर्वतोऽधिकम् ॥५॥ द्वितीयावृत्ति { आश्विन २०४०, वैक्रमाब्द } { अक्तूबर सन् १६८३ } इति भूतपूर्वाखण्ड-भारतान्तर्गत-सिन्धुतटवर्त्ति-डेराइस्माईलखाना- दयानगरवास्तव्य-भाटियावंशावतंस-स्वर्गत-श्रीमद्रामचन्द्र- वर्मसूनुना एम्० ए० साहित्यरत्नेत्याद्यनेकोपाधि- भृता वैद्येन भीमसेनशास्त्रिणा विरचितायां लघुसिद्धान्तकौमुद्या भैमीव्याख्याया- मव्ययप्रकरणं पूत्तिंमगात् । [समाप्तञ्चात्र पूर्वार्धम् ॥] [ शुभम्भूयादध्यायकानामध्यापकानाञ्च ॥]