लघुसिद्धान्तकौमुदी (वरदराजाचार्य - भैमी एवं सान्वय हिन्दी व्याख्या सहित)
Laghu Siddhanta Kaumudi of Varadaraja with Hindi Commentary
आचार्य वरदराज द्वारा
पृष्ठ 600, कुल 633 में से
संदर्भ में पढ़ेंपरिशिष्टानि ५८५ (१) परिशिष्ट—विशेष-स्मरणीय-पद्यतालिका [भैमीव्याख्या-प्रथमभागस्थ दर्जनों पद्यों में से व्याकरणसम्बन्धी कुछ विशेष स्मरणीय पद्य यहां प्रस्तुत किये गये हैं ।] (१) प्रत्ययाः शिवसूत्राणि आदेशा आगमास्तथा । धातुपाठो गणे पाठ उपदेशाः प्रकीर्तिताः ॥ (पृष्ठ ८) (२) परेणैवेण्ग्रहाः सर्वे पूर्वेणैवाऽण्ग्रहा मताः । ऋतेऽणुदित्सवर्णस्येत्येतदेकं परेण तु ॥ (पृष्ठ २६) (३) संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ (पृष्ठ ३५) (४) द्वौ नञौ तु समाख्यातौ पर्युदास-प्रसज्यकौ । पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत् ॥ (पृष्ठ ३८) (५) तुम्बिकातृणकाष्ठञ्च तैलं जलमुपागतम् । स्वभावादूर्ध्वमायाति रेफस्यैतादृशी गतिः ॥ (पृष्ठ ५४) (६) अक्षौहिण्याः प्रमाणं तु खाऽङ्ग्राष्टैकद्विकैर्गजैः । रथैरेतैर्हयैस्त्रिघ्नैः पञ्चघ्नैश्च पदातिभिः ॥ (पृष्ठ ६१) (७) ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित् ॥ (पृष्ठ ६०) (८) वच्छौ वच्छा जच्छा वक्षाविति चतुष्टयम् । रूपाणामिह तुक्-छत्व-चलोपानां विकल्पनात् ॥ (पृष्ठ १३१) (९) सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी सैष भीमो महाबलः ॥ (पृष्ठ १५६) (१०) विद्वान्कीदृग्वचो ब्रूते को रोगी कश्च नास्तिकः । कस्याश्चन्द्रं न पश्यन्ति सूत्रं तत्पाणिनेर्वद ॥ (पृष्ठ १६०) (११) जकारश्च शकारश्च टकारश्च ङपावपि । सुङस्योरुदितौ चैव सुपि सप्त स्मृता इतः ॥ (पृष्ठ १६१) (१२) सकारो जश्शसोरोसि ङसि भ्यसि न चेद्द्विसि । मकारश्च तथा ज्ञेय आमि भ्यामि स्थितस्त्वमि ॥ (पृष्ठ १६२) (१३) संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति । रात्तु तेनैव लोपः स्याद् हलस्तस्माद्विधीयते ॥ (पृष्ठ २३०) (१४) लक्ष्म्या वै जायते भ्रातुः सरस्वत्यापि जायते । अत्र षष्ठीपदं गुप्तं यो जानाति स पण्डितः ॥ (पृष्ठ २८१) (१५) एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता । विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ (पृष्ठ २८१)