लघुसिद्धान्तकौमुदी (वरदराजाचार्य - भैमी एवं सान्वय हिन्दी व्याख्या सहित)
Laghu Siddhanta Kaumudi of Varadaraja with Hindi Commentary
आचार्य वरदराज द्वारा
पृष्ठ 601, कुल 633 में से
संदर्भ में पढ़ें५८६ भैमीव्याख्योपेतायां लघुसिद्धान्तकौमुद्याम् (१६) अवी-तन्त्री-स्तरी-लक्ष्मी-तरी-धी-ह्री-श्रिया भियः। अङ्यन्तत्वात् स्त्रियामेषां न सुलोपः कदाचन॥(पृष्ठ ३०६) (१७) पाणिनेर्न नदी गङ्गा यमुना च स्थली नदी। प्रभु स्वातन्त्र्यमापन्नो यदिच्छति करोति तत्॥(पृष्ठ ३०६) (१८) पीलुवृक्षः फलं पीलु पीलुने न तु पीलवे। वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः॥(पृष्ठ ३४३) (१९) इदमस्तु सन्निकृष्टे समीपतरवर्त्ति चैतदो रूपम्। अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्॥(पृष्ठ ३७०) (२०) काचं मणि काञ्चनमेकसूत्रे ग्रथ्नासि बाले किमिदं विचित्रम्। विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह॥ (पृष्ठ ३६३) (२१) पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि। यान्यद्विवचनान्यत्र शेषे-लोपो विधीयते॥ (पृष्ठ ४२२) (२२) जक्षि-जागृ-दरिद्रा-शास्-दीधीङ्-वेवीङ्-चकास्तयः। अभ्यस्तसंज्ञा विज्ञेया धातवो मुनिभाषिताः॥ (पृष्ठ ४५५) (२३) सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्। माध्यन्दिनिर्वेष्टि गुणं ङिगन्ते नपुंसके व्याघ्रपदां वरिष्ठः॥ (पृष्ठ ४७१) (२४) जायन्ते नव सौ, तथाऽमि च नव, भ्याम्भिस्भ्यसां सङ्गमे, षट् संख्यानि, नवैव सुप्प्यथ जसि त्रीण्येव तद्वच्छसि। चत्वार्यन्यवचःसु कस्य विबुधाः! शब्दस्य रूपाणि तज् जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः॥(पृष्ठ ५०४) (२५) गवाक्षशब्दस्य रूपाणि क्लीबेऽर्चागति-भेदतः। असङ्ख्यवड्पूर्वरूपंनवाधिकशतं मतम्॥ (पृष्ठ ५०४) (२६) रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक। अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रज्ञं पण्डितं तञ्च धिग्धिक॥ (पृष्ठ ५३०) (२७) अवदत्तं विदत्तं च प्रदत्तञ्चादिकर्मणि। सुदत्तमनुदत्तञ्च निदत्तमिति चेष्यते॥ (पृष्ठ ५४६) (२८) सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥ (पृष्ठ ५८०) (२९) वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा॥ (पृष्ठ ५८०)