लीलावती (भास्कराचार्य द्वितीय - प्राचीन भारतीय गणित सटीक)
Lilavati of Bhaskaracharya with Hindi Commentary
भास्कराचार्य द्वितीय (११५० ई.) / पं. रामस्वरूप शर्मा द्वारा
पृष्ठ 210, कुल 268 में से
संदर्भ में पढ़ें( १९४ ) लीलावती । अन्वयः-जीवांघ्रिपञ्चगुणितः परिधेः वर्गः व्यासाब्धिघातयुतमौर्विकया विभक्तः कार्य्यः ततः लब्धोनितात् परिधिवर्गचतुर्थभागात् आप्ते पदे ततः वृतिदलात् पतितं शेषं धनुः स्यात् ॥ ५० ॥ अर्थः-जीवाके चौथे भागसे और पांचसे परिधिके वर्गको गुणा करे तब जो अंक हों उनमें चारसें गुणा करे हुए व्याससे युक्त जीवाका भाग दे तब जो लब्धि हो उसको परिधिके वर्गके चौथे भागमें घटावे जो शेष रहे उसका मूल ले उस मूलको परिधिके आधेमें घटावे तब जो शेष रहे वह धनुष होता है ॥ ५०॥ उदाहरणम्- विहिता इह ये गुणास्ततो वद तेषामधुना धनुर्मितिम् ॥ यदि तेऽस्ति धनुर्गुणक्रियागणिते गाणितिकातिनैपुणम् २९ ॥ अन्वयः-हे गाणितिक ! यदि ते धनुर्गुणक्रियागणिते अतिनैपुणम् अस्ति तर्हि इह ये गुणाः विहिताः अधुना ततः तेषां धनुर्मितिम् वद ॥ २९ ॥ अर्थः-हे गणितशास्त्रके जाननेवाले ! यदि तुम्हारी चाप और ज्याकी गणितमें कुछ चतुरता हो तो जो ज्या ४२ । ८२ । १२० । १५४ । १८४ । २०८ २२६ । २३६ । २४० पीछे उदाहरणमें कह आये हैं अब उनही ज्याओंके चापोंका प्रमाण कहो ॥ २९ ॥ न्यासः-पूर्वसाधिता ज्याः ४२ । ८२ । १२० । १५४ । १८४ । २०८ । २२६ । २३६ । २४० स एवापवर्तितपरिधिः १८ । जीवांघ्रिणा ४२/४ पंचभिश्च परिधे १८ वर्गो ३२४ गुणितः ५७०१० व्यासा २४० ब्धि ४ घात ९६० युत- मौर्विकयानया १०००२ विभक्तो लब्धः १७ अत्रांक- लाघवाय चतुर्विंशतेर्द्वयधिकसहस्रांश २४/१००२ युतो गृहीतो- ऽनेनोनितात्परिधिवर्ग३२४चतुर्थभागा८१ त् ८ वति १८दलात् ९ पतिते १ जातं धनुः एवं जातानि धनूंषि १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ एतानि परिधिष्वष्टादशांशेन गुणितानि स्युः ॥ ॥ इति श्रीसुप्रसिद्धानैकतन्त्रश्रीपाण्डितभास्कराचार्य्यविरचितायां लीलावत्यां क्षेत्रव्यवहारनिरूपणं नाम प्रकरणं समाप्तम् ॥ CC-0. Late Pt. Manmohan Shastri Collection Jammu. Digitized by eGangotri