महाभारत (खंड १) - आदि व सभा पर्व
Mahabharata (Vol 1) - Adi and Sabha Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
पृष्ठ 1673, कुल 2256 में से
संदर्भ में पढ़ेंगन्धर्वाणां च पतयो विश्वावसुर्हहाहूहूः ॥ २५ ॥ तुम्बुरुः पर्वतश्चैव शैलूषश्च तथापरः । चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि च ॥ २६ ॥ एते चान्ये च गन्धर्वा धनेश्वरमुपासते । इनके सिवा और भी विविध वस्त्राभूषणोंसे विभूषित और प्रसन्नचित्त सैकड़ों गन्धर्वपति विश्वावसु, हाहा, हूहू, तुम्बुरु, पर्वत, शैलूष, संगीतज्ञ चित्रसेन तथा चित्ररथ—ये और अन्य गन्धर्व भी धनाध्यक्ष कुबेरकी उपासना करते हैं ॥ २५-२६ १/२ ॥
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः ॥ २७ ॥ उपाचरति तत्र स्म धनानामीश्वरं प्रभुम् ॥ २८ ॥ विद्याधरोंके अधिपति चक्रधर्मा भी अपने छोटे भाइयोंके साथ वहाँ धनेश्वर भगवान् कुबेरकी आराधना करते हैं ॥ २७-२८ ॥
आसते चापि राजानो भगदत्तपुरोगमाः । द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥ २९ ॥ भगदत्त आदि राजा भी उस सभामें बैठते हैं तथा किन्नरोंके स्वामी द्रुम कुबेरकी उपासना करते हैं ॥ २९ ॥
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः । सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः ॥ ३० ॥ विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् । महेन्द्र, गन्धमादन एवं धर्मनिष्ठ राक्षसराज विभीषण भी यक्षों, गन्धर्वों तथा सम्पूर्ण निशाचरोंके साथ अपने भाई भगवान् कुबेरकी उपासना करते हैं ॥ ३० १/२ ॥
हिमवान् पारियात्रश्च विन्ध्यकैलासमन्दराः ॥ ३१ ॥ मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः । इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ ॥ ३२ ॥ एते चान्ये च बहवः सर्वे मेरुपुरोगमाः । उपासते महात्मानं धनानामीश्वरं प्रभुम् ॥ ३३ ॥ हिमवान्, पारियात्र, विन्ध्य, कैलास, मन्दराचल, मलय, दर्दुर, महेन्द्र, गन्धमादन और इन्द्रकील तथा सुनाभ नामवाले दोनों दिव्य पर्वत—ये तथा अन्य सब मेरु आदि बहुत-से पर्वत धनके स्वामी महामना प्रभु कुबेरकी उपासना करते हैं ॥ ३१—३३ ॥
नन्दीश्वरश्च भगवान् महाकालस्तथैव च । शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा ॥ ३४ ॥ काष्ठः कुटीमुखो दन्ती विजयश्च तपोऽधिकः । श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः ॥ ३५ ॥