महाभारत (खंड २) - वन पर्व
Mahabharata (Vol 2) - Vana Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
पृष्ठ 639, कुल 2580 में से
संदर्भ में पढ़ेंतत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः । नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ६४ ॥ राजेन्द्र! उसमें स्नान करके देवताओं और पितरोंके पूजनमें तत्पर रहनेवाला जितात्मा पुरुष पवित्र हो परमगतिको प्राप्त होता है ॥ ६४ ॥ ततो गच्छेत राजेन्द्र शृङ्गवेरपुरं महत् । यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥ ६५ ॥ राजेन्द्र! वहाँसे महान् शृङ्गवेरपुरकी यात्रा करे। महाराज! पूर्वकालमें दशरथनन्दन श्रीरामचन्द्रजीने वहीं गङ्गा पार की थी ॥ ६५ ॥ तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते । गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥ ६६ ॥ विधूतपाप्मा भवति वाजपेयं च विन्दति । महाबाहो! उस तीर्थमें स्नान करके मनुष्य सब पापोंसे मुक्त हो जाता है। ब्रह्मचर्यपालनपूर्वक एकाग्र हो गङ्गाजीमें स्नान करके मनुष्य पापरहित होता तथा वाजपेययज्ञका फल पाता है ॥ ६६ ½ ॥ ततो मुञ्जवटं गच्छेत् स्थानं देवस्य धीमतः ॥ ६७ ॥ अभिगम्य महादेवमभिवाद्य च भारत । प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ६८ ॥ तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते । तदनन्तर तीर्थयात्री परम बुद्धिमान् महादेवजीके मुंजवट नामक तीर्थको जाय। भरतनन्दन उस तीर्थमें महादेवजीके पास जाकर उन्हें प्रणाम करके परिक्रमा करनेसे मनुष्य गणपतिपद प्राप्त कर लेता है। उक्त तीर्थमें जाकर गंगामें स्नान करनेसे मनुष्य सब पापोंसे छुटकारा पा जाता है ॥ ६७-६८ ½ ॥ ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ॥ ६९ ॥ तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः । लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ ७० ॥ सनत्कुमारप्रमुखास्तथैव परमर्षयः । अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः ॥ ७१ ॥ तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा । सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च ॥ ७२ ॥ हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः । तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी ॥ ७३ ॥ वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता । तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥ ७४ ॥