मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 100, कुल 377 में से
संदर्भ में पढ़ें९४ मालतीमाधवे माधवः — कथं प्रमुग्ध एव । भगवति, परित्रायस्व माम् । कामन्दकी — वत्स, अतिकातरोऽसि । नन्वेहि, पश्यावस्तावत् । (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे तृतीयोऽङ्कः । माधवः । कथं मकरन्दः प्रमुग्धो मोहं प्राप्त एव । भगवति, परित्रायस्वेति । मित्रव्यसनात्स्वयमपि प्रमुग्ध इव भवन्नेवं वदतीति ज्ञेयम् ॥ कामन्दकी । अतिकातरोऽसि । किमर्थमेतावत्तैव बिभेषि । नन्वित्यामन्त्रणम् । एहि मकरन्दं पश्यावः । कथं वर्तत इति द्रक्ष्याव इत्यर्थः । इदं चाङ्कावतरणमुत्तराङ्कार्थस्य पूर्वाङ्कान्ते निपातनात् । अङ्कद्वयस्य संगतार्थत्वात् । यथा — 'अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः । पूर्वाङ्कस्यावसानोक्तकथाविच्छेदपूर्वकम् । प्रवेशो भावि- नोऽङ्कस्य सोऽङ्कावतर इष्यते ॥' इति ॥ भवभूतिवचोगुम्फरसास्वादनचातुरी । यदि विद्येत केषांचिद्विरलानां विपश्चिताम् ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रिपुरारि- सूरिविरचितायां मालतीमाधवभावप्रदीपिकायां तृतीयाङ्कविवरणम् ॥