भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 101, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 101

चतुर्थोऽङ्कः । (ततः प्रविशतो मदयन्तिकामालतीभ्यामवलम्ब्यमानौ मुग्धौ मकरन्दमाधवौ संभ्रान्ता कामन्दकी बुद्धरक्षिता लवङ्गिका च ।) मदयन्तिका—पसीद भअवदि, परित्ताहि मदयन्तिआणि- मित्तं संसइदजीविदं विपण्णणुकम्पिणं महाभाअं । इतराः—हद्धि । किं दाणिं एत्थ पेक्खिदव्वं अम्हेहिं । कामन्दकी—(उभौ कमण्डलूदकेन सिक्त्वा ।) ननु भवत्यः पटाञ्च- लैर्वीजयध्वम् । (मालत्यादयस्तथा कुर्वन्ति ।) मकरन्दः—(समाश्वस्यावलोक्य च ।) वयस्य, अतिकातरोऽसि । किमेतत् । ननु स्वस्थ एवासि । मदयन्तिका—अह्महे, दाणिं पडिबुद्धं मअरन्दपुण्णचन्देण । १. प्रसीद भगवति, परित्रायस्व मदयन्तिकानिमित्तं संशयितजीवितं वि- पन्नानुकम्पिनं महाभागम् । २. हा धिक् । किमिदानीमत्र प्रेक्षितव्यमस्माभिः । ३. अहो, इदानीं प्रतिबुद्धं मकरन्दपूर्णचन्द्रेण । नमामि मदनानन्दविधानविहितादराम् । शंभुवामाङ्गवामाक्षीं कामाक्षीं कामिताप्तये ॥ कविरिदानीमङ्कावतारेणैव पूर्वमङ्कान्ते निवेदितानामदृष्टपात्रप्रवेशकतद्वृत्तान्तस्य सूचितत्वादङ्कमेवारभते—तत इत्यादि । माधवस्यापि मित्रव्यसनेन प्रमुग्ध- त्वान्मालत्या संनिहितयावलम्बनं द्रष्टव्यम् ॥ मदयन्तिका । प्रसीद भगवति, परित्रायस्व मदयन्तिकानिमित्तं संशयितजीवितं विपन्नानुकम्पिनं महाभागम् । मदयन्तिकानिमित्तमित्यर्थान्तरसंक्रमितवाच्यो ध्वनिः । लोकोत्तरपुरुषधौरेयजी- वितापहारलक्षणापयशसोभाजनकत्वं द्योत्यते ॥ इतराः । हा धिक् । किमिदानी- मत्र प्रेक्षितव्यमस्माभिः ॥ मकरन्दः । वयस्य, अतिकातरोऽसि । किमेतत् धीर- स्यापि तेऽयुक्तमित्यर्थः । नन्वित्यामन्त्रणे । स्वस्थ एवाहमस्मि न प्रमुग्धः ॥ मद- यन्तिका । अहो, प्रतिबुद्धमिदानीं मकरन्दपूर्णचन्द्रेण । पूर्णचन्द्रत्वारोपेण स्व-