मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 102, कुल 377 में से
संदर्भ में पढ़ें९६ मालतीमाधवे मालती—(माधवस्य ललाटे हस्तं दत्वा ।) १महाभाअ, दिठ्ठिआ व- ड्ढसि । णं भणामि पडिवण्णचेअण्णो महाभाओ त्ति । माधवः—(समाश्वस्य ।) वयस्य, साहसिक एहोहि । (इत्यालिङ्गति ।) कामन्दकी—(उभौ शिरस्याघ्राय ।) दिष्ट्या जीवद्वत्सासि । इतराः—२पिअं णो संउत्तं । (सर्वे हर्षं नाटयन्ति ।) बुद्धरक्षिता—(जनान्तिकम् ।) ३सँहि मदअन्तिए, एसो एव्व सो । मदयन्तिका—४सँहि जाणीदं एव्व मए जह एसो माहवो अअं वि सो जणो त्ति । बुद्धरक्षिता—५अवि सच्चवादिणी अहं । मदयन्तिका—६ण क्खु अह्मारिसेसु तुम्हारिसीओ पक्खवा- दिणीओ होन्ति । (माधवमवलोक्य ।) सहि, मालदीए वि रमणिज्जो १. महाभाग, दिष्ट्या वर्धसे । ननु भणामि प्रतिपन्नचेतनो महाभाग इति । २. प्रियं नः संवृत्तम् । ३. सखि मदयन्तिके, एष एव सः । ४. सखि, ज्ञातमेव मया यथैष माधवोऽयमपि स जन इति । ५. अपि सत्यवादिन्यहम् । ६. न खल्वस्मद्विधेषु युष्मादृश्यः पक्षपातिन्यो भवन्ति । सखि, मालत्या अपि रमणीयोऽस्मिन्महानुभावेऽनुरागप्रवादः । चित्ताह्लादकत्वादनुरागप्रकर्षं सूचयति ॥ मालती । माधवस्य ललाटे हस्तं दत्वे- त्यङ्गसंस्पर्शनामृतासेचनकल्पेन झटिति प्रमोहमपसारयितुं ललाटे हस्तनिक्षेपः । न चैतावता मालत्या धार्ष्ट्यमाशङ्कनीयम् । ईदृशे विपत्समये सर्वत्र सर्वेषामुचितो- पचारकरणस्य लोके धार्ष्ट्यरूपतयानुद्भावनातू ॥ कामन्दकी । शिरस्याघ्राणं गुरुजनस्यापत्येषु वात्सल्यद्योतकम् । जीवन्ती वत्सौ वात्सल्यविषयावपत्यकल्पौ यस्याः सा ॥ इतराः । प्रियं नः संवृत्तम् ॥ बुद्धरक्षिता । सखि मदयन्तिके, एष एव सः । यो मया पूर्वं निवेदितस्त्वयि निरतिशयानुरागो मकरन्दः स एष एवे- त्यर्थः ॥ मदयन्तिका । सखि, ज्ञातमेव मया एष एव माधवोऽयमपि स जन इति । भर्तृत्वाध्यवसायान्नामानुपादानम् । त्वदुक्ताकृतिविशेषसंवादेन स्वजीवितनि- रपेक्षतया मत्प्राणत्राणप्रवणतया कामन्दक्यादिव्यवहारेण च मदनुरक्तोऽयं मक- रन्द इति ज्ञात एवेत्यर्थः ॥ बुद्धरक्षिता । अपि सत्यवादिन्यहम् । किं मदुक्तमस्य सौन्दर्यादिगुणोज्ज्वलत्वं प्रत्यक्षतो दृश्यते न वेत्यर्थः ॥ मदयन्तिका । नखल्वस्म-