मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 103, कुल 377 में से
संदर्भ में पढ़ेंइमस्सिं महाणुहावे अणुराअप्पवादो । (इति मकरन्दमेव सस्पृहमवलो- कयति ।) कामन्दकी—(स्वगतम् ।) रमणीयोर्जितं हि मदयन्तिकामक- रन्दयोर्दैवादद्य दर्शनम् । (प्रकाशम् ।) वत्स मकरन्द, कथं पुनरायु- ष्मानस्मिनवसरे मदयन्तिकाजीवितपरित्राणहेतोर्भगवता दैवेन संनिधापितः । मकरन्दः—अद्याहमन्तर्नगरमेव कांचिद्वार्तामुपश्रुत्य माधव- चित्तोद्वेगमधिकमाशङ्कमानस्त्वरितमवलोकितानिवेदितकुसुमाकरोद्या- नवृत्तवृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगोचरामिमामभिजातकन्यका- मभ्युपपन्नवानस्मि । (मालतीमाधवौ विमृशतः ।) कामन्दकी—(स्वगतम् ।) वृत्तान्तेन खलु मालतीप्रदानेन भ- वितव्यम् । (प्रकाशम् ।) वत्स माधव, दिष्ट्या वर्धितोऽसि मालत्या । सोऽयमवसरः प्रीतिदानस्य । माधवः—भगवति, इयं मालती यद्व्यालव्रणितसुहृत्प्रमोहमुग्धं कारुण्याद्विहितवती गतव्यथं माम् ।
दृशीषु युष्मादृश्यः पक्षपातिन्यो भवन्ति । सखि, मालत्या अपि रमणीयोऽस्मिन्महा- नुभावेऽनुरागप्रवादः । तन्मदीयभ्रातृमनोरथसंपत्तिर्दुर्लभेति हृदयम्॥ कामन्दकी। रमणीयं संभ्रमस्रस्तांशुकं सम्यग्विभाव्य परस्परावयवसौष्ठवग्राहित्वेन साध्वसव्या- जादृढालिङ्गनमहोत्सवानुबन्धित्वेन च मनोहरम् । तथोर्जितं बलवद्दुस्तरविपन्निस्तर- णोपकारमूलत्वेन दैवेन, नलस्रग्दादिप्रयत्नात्, ईदृक्संपादनस्य दुःसाधकत्वात् । संनिधापितः संनिहितीकृतः ॥ मकरन्दः । परापतन्नेव त्वरितमागच्छन्नेव । अवस्कन्दोऽभिभवः । अभिजातकन्यकामाकृतिविशेषाद्यनुमितमहाकुलप्रभवकुमा- रीभावामभ्युपपन्नवानभ्युपगतवानस्मि ॥ मालतीमाधवौ विमृशतः । चित्तोद्वेगहेतु- रुभयोः साधारणत्वात्सुखदुःखयोरभावपि विमृशत इत्यर्थः ॥ कामन्दकी माधव- चित्तोद्वेगातिशयकरीं वार्तां निरूपयति—कामन्दकी । वृत्तान्तेनेति । राज्ञा- नन्दनाय मालतीप्रदानं निष्पन्नप्रायं भवितुमर्हतीत्यर्थः । अथ निश्चित्य वार्तां शीघ्र- मन्तःपुरमाकारयितुमत्रागमिष्यन्ति, ततः प्रागेव मालतीमनःप्रत्ययजननाथं माध- वेन स्वमभिप्रायं स्वत एव वाचयिष्यामीत्यभिप्रायेणाह—वत्स माधव, मालत्या वर्धितोऽसि प्रत्याहृतचैतन्योसि । सोऽयमवसरः प्रीतिदानस्य पारितोषिकस्य । तद्दीयतामित्यर्थः । माधवः । यदिति । इयं मालती यतो व्यालेन क्रूरसत्त्वेन