मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 104, कुल 377 में से
संदर्भ में पढ़ें९८ मालतीमाधवे तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च ॥ १ ॥ लवङ्गिका—पडिच्छिदो क्खु णो पिअसहीए अअं पसादो। मदयन्तिका—(स्वगतम् ।) जाणादि महाणुहावो अअं जणो रमणिज्जं मन्तेदुं । मालती—(स्वगतम् ।) किं णाम मअरन्देण उव्वेअकारणं सुदं भविस्सदि । (प्रविश्य ।) पुरुषः—वत्से मदयन्तिके, भ्राता ते ज्यायानमात्यनन्दनः समादिशति । अद्य परमेश्वरेणास्मद्भवनमागत्य भूरिवसोरुपरि परं विश्वासमस्मासु च प्रसादमाविष्कुर्वता स्वयमेव मालती प्रतिपादिता तदेहि । संभावयावः प्रसादमिति । मकरन्दः—वयस्य, इयं सा वार्ता । १. प्रतीच्छितः खलु नः प्रियसख्यायं प्रसादः । २. जानाति महानुभावोऽयं जनो रमणीयं मन्त्रयितुम् । ३. किं नाम मकरन्देनोद्वेगकारणं श्रुतं भविष्यति । व्रणितस्य विक्षतगात्रस्य सुहृदः प्रमोहेन मूर्छया प्रमुग्धं मां कारुण्यादृतव्यथं कृत- वती। तस्मात्कामं स्वेच्छया विनैव ममानुमतिं पूर्णपात्रवृत्त्या पूर्णपात्रप्रकारेण मम हृदयं च जीवितं च स्वीकर्तुं प्रभवति यथेष्टविनियोगार्हं कर्तुमीष्टे । पूर्णपात्रं नाम प्रियनिवेदकेन बलादाकृष्य गृह्यमाणमलंकारवस्त्रादिकं कथ्यते । प्रागेव हृदयं जीवितं च तदधीनमेव वर्तत इति तन्मया देयम् । ततोऽधिकं नास्ति किमिदानीं दातव्यमित्याशयः । एतद्युक्तोत्तरप्रदानात्प्रगमनं नामाङ्गमुक्तम् । यथा—‘युक्तोत्तरं प्रगमनम्’ इति ॥१॥ लवङ्गिका । प्रतीच्छितः खलु नः प्रियसख्यायं प्रसादः । अयमेव महान्प्रसादो यत्प्रियसख्यधीने तन्मनोजीविते इति किमतः परं श्लाघनीय- मित्यर्थः ॥ मदयन्तिका । जानाति महानुभावोऽयं जनो रमणीयं मन्त्रयितुम् । रमणीयं मनोगताभिप्रायप्रकटनं बाह्योपचारनैपुण्यप्रदर्शनं यथा भवति तथा मनो- हरम् ॥ मालती । किं नाम मकरन्देनोद्वेगकारणं श्रुतं भविष्यति । माधवस्येति शेषः ॥ प्रविश्येत्यादि । ज्यायाञ्ज्येष्ठः । परमेश्वरेनानतिक्रमणीयशासनेन राज्ञा परं विश्वासमस्मदीयं सर्वस्वम् । तस्य यथेष्टविनियोगार्हं तदीयमास्माकमित्यन्योन्यस्य निरतिशयं मनःसंमेलनं प्रकटयतेत्यर्थः । प्रतिपादिता दत्ता । संभावयावः । प्रमोदेन बहुमन्यावह इत्यर्थः । इदं च प्रस्तुतप्राप्तिविरोधान्निरोधो नामाङ्गम् । यथा— 'हितरोधो निरोधः स्याद्' इति ॥ मकरन्दः ॥ इयं सेति । या त्वयोद्वेगका-