भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 99, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 99

तृतीयोऽङ्कः । ९३ सर्वाः—हाँ मदअन्तिए । कामन्दकीमाधवौ—(सहर्षाकूतम् ।) कथं तदवपातितादधिगतायुधः संभ्रमात् । कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितः इतराः—सौहु, महाभाअ, साहु । कामन्दकीमाधवौ— दृढं च पशुना हतो व्यसुरसौ कृतश्चामुना ॥ १८ ॥ इतराः—अच्चाहिदं । कामन्दकी—(साकूतम् ।) कथं व्यालनखरप्रहारनिःसृतरक्तनि- वहः क्षितितलविषक्तखड्गलतावष्टम्भनिश्चलः संभ्रान्तमदयन्तिकावल- म्बितस्ताम्यति वत्सो मकरन्दः । इतराः—हँद्धि, गाढप्पहागदाए, किलम्मदि महाभाओ । १. मदयन्तिके । २. साधु महाभाग, साधु । ३. अत्याहितम् । ४. हा धिक्, गाढप्रहारतया क्लाम्यति महाभागः । तु पशोः क्रमगता । एकेनैव पदविन्यासेन लभ्यदेशे वर्तत इत्यर्थः । हाशब्द इष्टजनविपत्तिद्योतकः । माधवस्य सहर्षत्वं व्याघ्रहननाद्दयिताजीवनाच्च । कामन्द- क्याः साकूतत्वं मकरन्देन मदयन्तिकाप्राणरक्षणोपकारस्य तदुभयसंघटनोपयो- गित्वादिति । कथं मकरन्दः सहसैव संभ्रमादेत्य तदवपातितात्तेन शार्दूलेनावपा- तितान्निहतात् । कस्माच्चिदायुधहस्तात्पुरुषादित्यध्याहारः । अधिगतं प्राप्तमायुधं येन सः । तन्निहतभटहस्तगतमाहृत्येत्यर्थः । मध्ये व्याघ्रमदयन्तिकयोरन्तरे स्थितोऽतर्कितोपनतोऽसावस्या आलम्बनं जात इत्यर्थः ॥ इतराः । साधु । पौरुषं महत्कृतमिति शेषः । दृढमिति । दृढं यथा स्यात्तथा मकरन्दः पशुना हतोऽभिहतः । अमुना मकरन्देन चासौ पशुर्व्यसुर्विगतप्राणः कृतश्च । प्रमथितश्च । 'दंष्ट्रायुधः' इति कचित्पाठः । खण्डितः । व्याघ्र इत्यर्थः ॥ १८ ॥ इतराः । अत्या- हितं महाभीतिः । उपस्थितमिति शेषः ॥ कामन्दकी । साकूतत्वे हेतुरुक्तः । व्यालः क्रूरजन्तुः । क्षितितले विषक्तआलम्बनयष्टिरिव संलग्नैककोटिर्या खड्गलता तदवष्टम्भेन तदवलम्बनेन निश्चलो महाशूरतया बलवत्प्रहृतोऽपि स्वायुधमेवाव- ष्टभ्य स्थितः, न तु पतित इत्यर्थः । संभ्रान्तयोद्विग्नया मदयन्तिकयावलम्बितो दत्तहस्तावलम्बः ॥ इतराः । हा धिक् । गाढप्रहारतया क्लाम्यति महाभागः ॥