मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 167, कुल 377 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । १६१ मकरन्दः—(प्रविश्य विहसन् ।) (सर्वे सविस्मयं सकौतुकं पश्यन्ति ।) माधवः—(गाढं मकरन्दं परिष्वज्य ।) भगवति, कृतपुण्य एव नन्दनः । यतः प्रियवयस्यमीदृशं मनसा मुहूर्तमपि कामयिष्यति । कामन्दकी—वत्सौ मालतीमाधवौ, इतो निर्गत्य वृक्षगहनेन गम्यतामुद्वाहमङ्गलार्थम् । अस्ति तत्र दीर्घिकायाः पश्चादुद्यानवाटः । सुविहितं तत्रैव वैवाहिकद्रव्यजातमवलोकितया भूयश्च । गाढोत्कण्ठकठोरकेरलवधूगण्डाच्छपाण्डुच्छदै- स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः । कङ्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तद्भुवो भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम् ॥१९॥ अतस्तत्रैव मदयन्तिकामकरन्दयोर्यावदागमनं स्थातव्यम् । माधवः—(महर्षम् ।) कल्याणान्तरावतं सा कल्याणसंपदुपतिष्ठा- द्भवतु । कलहंसः—दिट्ठिआ इदं वि पिअं णो भविस्सदि । १. दिष्ट्या इदमपि प्रियं नो भविष्यति । वा तव भवेदित्येवंरूपायाम् । कस्त्वं को वा तव भारो मयि वर्तमानायामिति भावः । गाढोत्कण्ठेति । गाढया प्रवृद्धयोत्कण्ठया प्रियानवाप्तिजनितेन स्मरदशानि- मितेनौत्सुक्येन व्यभिचारिणा कठोरः प्रौढो यः केरलवधूनां कपोलस्तद्वदच्छाः पाण्डुवर्णाश्छदाः पर्णानि येषां तैस्ताम्बूलीनां नागवल्लीनां पटलैः समूहैः पिनद्धाः संबद्धाः फलिता अत एव व्यानम्राः फलभारावनताः पूगद्रुमाः क्रमुकवृक्षा येषु तथा । कङ्कोलीफलानां जग्धेन भक्षणेन । भावे क्तः । मुग्धा मनोहरा ये विकि- राणां पक्षिणां व्याहारा रुतानि तद्वन्तस्तथा । प्रेङ्खिताश्चलिताः फलापादनार्थं मातुलुङ्गवृत्तयो बीजपूरसमूहा येषु तादृशास्तद्भूवोऽस्मद्विहारिकाया भुवो भागा अवकाशा वां युवयोः प्रेयः प्रीतिं विधास्यन्तीति । अत्र नागवल्लीलतापूगद्रुम- संश्लेषणं मिथुनान्तरदर्शनमुद्दीपनं चायत्नसिद्धसंभोगसाधनताम्बूललाभश्च पक्षिणां कोलाहलेन नान्यैर्भवद्वचनाकर्णनं बीजपूरकुञ्जसंकटत्वादन्येषामप्रवेशयोग्यत्वम- दृश्यत्वेन तेनावस्थानं च भवतीत्यादि व्यज्यते ॥ १९ ॥ मदयन्तिकागमनं याव- दिति । तत्र युवयोर्मदयन्तिकामकरन्दयोश्च युगपदेव विवाहो निर्वर्तयिष्यत इत्याशयः ॥ माधवः । कल्याणान्तरावतं सा कल्याणान्तरालंकारा कल्याणसंप- न्मालतीप्राप्तिलक्षणमङ्गलसमृद्धिः ॥ कलहंसः । दिष्ट्या इदमपि प्रियं नो भवि-