मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 30, कुल 377 में से
संदर्भ में पढ़ें२२ मालतीमाधवे लज्जां विजित्य विनयं विनिवार्य धैर्य- मुन्मथ्य मन्थरविवेकमकाण्ड एव ॥ २१ ॥ आश्चर्यम् । यद्विस्मयस्तिमितमस्तमितान्यभाव- मानन्दमन्दममृतप्लवनादिवासीत् । तत्संनिधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव व्यथमानमास्ते ॥ २२ ॥ मकरन्दः—(उपसृत्य ।) सखे माधव, इत इतः ललाटंतपस्तपति घर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । (उभौ परिक्रामतः ।) कलहंसः—कहं मअरन्दसहअरो इमं एव्व बालुज्जाणं अलं- करेदि माहवो । ता दंसिमि मअणवेअणाखिज्जमाणमालदी- १. कथं मकरन्दसहचर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्श- यामि मदनवेदनाखिद्यमानमालतीलोचनसुखावहात्मनोऽस्य प्रतिच्छन्द- कम् । अथवा विश्रामसौख्यं तावदनुभवतु । एव । लज्जाम् । कथमार्यविगर्हिते परोपहासनीये कर्मणि प्रवृत्तोऽहमिति मनःसं- कोचनं लज्जा । यथा—'मनःसंकोचनं लज्जा ह्यनौचित्यप्रवर्तनात्' इति । तां विजित्य निरस्य विनयं विनीततां विनिवार्य । धैर्यं धीरतामुन्मथ्य मथिला मन्थरो मन्दीभूतो विवेकः कृत्याकृत्यज्ञानं यथा स्यात्तथेति ॥ अत्र लज्जात्यागो विवेकमन्द्येन उन्मादश्चेति सप्तमाष्टमावस्थाद्वयमादावेव रागोत्कर्षप्रदर्शनाथैमुक्त- मिति द्रष्टव्यम् । मन्थरविवेकमिति चेतोविशेषणं वा ॥ २१ ॥ आश्चर्यम् । यद्विस्मयेति । यन्मदीयं मनस्तस्याः संनिधौ विस्मयेनामानुषलोकोचितापूर्वला- वण्यदर्शनजनितेन चित्तविकासेनाद्भुतरसस्थायिना रसतामापन्नेन स्तिमितं निष्प- न्दमस्तमितान्यभावं विगलितवेद्यान्तरममृतप्लवनादिव सुधार्र्णवनि मज्जनेनेवानन्देन निरतिशयसुखाविर्भावेन मन्दं तदास्वादैकपरतया निरुद्धवृत्त्यन्तरमभूत् । तदेवे- दानीं तदसंनिधावङ्गारचुम्बितं प्रदीप्तेन्धनशकलसंस्पृष्टमिव । दग्धमिति वक्तव्ये मनोगतप्रेयसीदाहभिया चुम्बितमिति कोमलोक्तिः । व्यथमानं संतप्यमानमास्ते । तत्संनिधानासंनिधानयोः क्षणमात्रभेदेनातीव मनोऽवस्थावैलक्षण्यमाश्चर्यमित्यर्थः ॥ २२ ॥ मकरन्दोऽन्यमनस्कतयात्मानमपश्यन्तमपि स्वयमेव प्रज्ञापयन्नाकार- यति—मकरन्दः । सखे माधवेति । इत इतः । आगम्यतामिति शेषः । ललाटेत्यादि । ललाटंतपो नभोमध्यवर्तीत्यर्थः । 'असूर्यललाटयोर्हृक्षितपोः' इति खन् । 'खित्यनव्ययस्य' इति मुमागमः ॥ कलहंसः—कथं मकरन्दसह- चर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्शयाम्यस्य मदनवेदनाखिद्यमान-