मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 31, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २३ लोअणसुहावहं अत्तणो से पडिच्छन्दं । अहवा विस्सामसोक्खं दाव अणुहोदु । मकरन्दः—तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामो- दवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः । (उभौ तथा कुरुतः ।) मकरन्दः—वयस्य माधव, सकलनगराङ्गनाप्रवर्तितमहोत्सवा- भिरामाकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि । अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् । (माधवः सलज्जमधोमुखस्तिष्ठति ।) मकरन्दः—(विहस्य ।) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि । पश्य । अन्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥ २३ ॥ मालतीलोचनसुखावहम् । चित्रस्य दर्शनमात्रफलकत्वात् । आत्मनः प्रतिच्छन्दकम् । अथवा विश्रामसौख्यं तावदनुभवतु । पश्चाद्दर्शयिष्यामीति शेषः ॥ मकरन्दः— तदिति । विकसितकुसुमकिञ्जल्कानां कषायशीतलो य आमोदो दूरविस्रमरो गन्धः । कषायशीतलयो रसधर्मत्वेऽपि तादृशरसेनाकार्यसमवायादामोदधर्म- त्वोपचारः तेन सुरभीकृतोद्यानस्य काञ्चनपादपस्य चाम्पेयतरोश्छायायामुपवि- शावः ॥ सकलेत्यादि । अन्यादृशं विलक्षणावस्थम् । अपिः प्रश्ने ॥ विह- स्येति । स्वमनोगतज्ञानादवनतानने माधवे सत्यं मदनविकार एव मदुन्नीतो हेतुरेतद्वैलक्ष्यस्येति स्वमतिसंवादाद्विहस्य सानुकूल्यप्रदर्शनेन लज्जां शिथिलयि- तुमाहेति शेषः। किमिति । मुग्धं सुन्दरम् । त्वदन्तःकरणनिर्विशेषे मयि किमा- शङ्कया लज्जया वा । तावद्विस्रब्धं कथयेत्यर्थः । किं च न खलु त्वदुपज्ञ एवार्यं स्मराभिषङ्गः सुरासुरनरसाधारणत्वात् । तेनानन्यकृतपूर्वान्तस्यानुचितवन्नैतदपह्नवो न्याय्य इत्याह—अन्येष्विति । यो विश्वस्य धातरि जगत्स्रष्टरि सुरज्येष्ठे स्वदु- हितृकामुके परमेश्वरे स्मरशासनेऽपि वामदेहार्धनिवेशितप्रेयसीके तमसावृतेष्व- ज्ञानोपहतविवकेष्वन्येषु जन्तुषु । प्राणिमात्र इत्यर्थः । समोऽवैषम्येणाकुण्ठित- व्यापारः । स तादृशोऽयं सर्वमनोगतश्चित्तजन्मा प्रसिद्धविभवः प्रथितप्रभावः खलु ब्रह्मादीनपि स्ववशीकरोति । का कथान्येष्विति भावः । ततो लज्जया तव मनोगतस्य विकारहेतोरपह्नुतिरपह्नवः । चित्ते नियमनमिति यावत् । मा भूत् ।