भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 349, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 349

अङ्कः ८ ] मालतीमाधवटीका । १०१ पृ० पं० २०२ २ ०तावत्पश्यावः० । ६ ०सली नो । ७ जीवन्त्युपेष्यति न्वेत्युपशङ्कि० । इति मालत्यपहारो नाम अष्टमोऽङ्कः । मकरन्दः । वैक्लव्यं दुःखितम् । माधवः । कातर्यं कातरत्वं तेन चेष्टितानि प्राणत्यागादीनि । यातेत्यादि । अस्माकं सखी भगवतीगृहं यदि गता भवेत्तदा जीवन्ती समागमिष्यति । न वा गता तदा नागमिष्यतीत्याशङ्कितोऽस्मि । तत्र हेतुः । बन्धुजनमित्रप्रियाणां संगम आदौ यस्य तत्सौहृद्यं बाहुल्येन विद्युत्स्फुरण- चञ्चलमेव भवति । तदिह भगवतीपादमूलेति साधारणपदोल्लेखेन मालत्या भविष्य- त्सौदामिनीपार्श्वगमनस्य सूचनेन नवमाङ्कावतारोऽपि सूचितः । अत एवाङ्कावता- रोऽयम् । यदाह—‘समाप्यमान एकस्मिन्नङ्केऽन्यस्य च सूचनम् । समासतो हि नाट्यज्ञैरङ्कावतार उच्यते’ ॥ सुहृन्मित्रम् प्रियं प्रीतिविषयं मनोज्ञं वस्तु ॥ १४ ॥ सूते स्म यं रत्नधरोऽतिमान्यो द्विजेष्टमान्या मदयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽह्नो गतोऽष्टमोऽयं रसरम्यरूपः ॥ इत्यष्टमोऽङ्कः ।