मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 350, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । पृ० प० १०३ ३-४ ०पर्वतादुत्पत्य पद्मावतीमुपाश्रिता । माल० । ५-६ प्रदेशमधितिष्ठतो माधवस्याधुनान्तिकं० । ६ ०सकल एष । ७ ०परिषिच्यते । अधुना पूर्वसूचितसौदामिन्या मालतीजीवननिवेदनेन माधवप्रत्युज्जीवनाय प्रवे- शमाह--तत इति । नानासिद्धिस्थानत्वेन देवतात्मकतया भगवत्पदं श्रीपर्वते । संस्तुतः परिचितः । द्रोणी नद्या मध्यम् । तथैत्यनेनोत्पतनस्य दूरत्वमुक्तम् । व्यति- करः समूहः । परिक्षिप्यत इव नेत्रमण्डले प्रविष्टीकृत इव । पद्मावतीत्यादि । पद्मावती पुरी गगनमिव धारयति । विमलवारिरच्छजला महती सिन्धुश्च पारा च सरितौ तयोः परिकरो वेष्टनं तद्याजात् । उच्छ्रितप्रासाददेवकुलपुरद्वाराट्टालिकानां घर्षणेनादौ विदीर्णं ततो विशेषेणोभयतस्त्यक्तम् । उत्तुङ्गसौधादय आकाशं पाट- यित्वा निर्गताः । अथ नदीच्छलेन तदाकाशं पतितमित्येवार्थः ॥१॥ सैषेत्यादि । सैषा लवणा नदीभेदो विभाति । मनोज्ञकल्लोलावलिः । वर्षासु यस्या गवां गर्भि- णीनां प्रिया नवा योलपमाला तृणविशेषराजिस्तां बिभ्रति । ताच्छील्ये णिनिः । अत एव सेव्याः परिशीलनसुखदाः समीपवनपङ्क्तयो लोकहर्षाय भवन्तीति । सैषेत्यनेन पूर्वदृष्टत्वमुक्तम् । अपो बिभर्तीत्यब्भ्रम्, अभ्रति गच्छति वेत्यभ्रम् । अतो बकारयुक्तं तद् । अयुक्तं चेदं पदमित्यवधेयम् । ‘चतुष्पादो गर्भिण्या’ इति समासः । ‘उल्पो ना तृणान्तरे’ इति मेदिनीकारः । मालभारीत्यत्र ‘इष्टकेषीकामालानां चिततूलभा- रिषु’ इति ह्रस्वः ॥२॥ रसातळतटः पृथ्वीतटः । तलशब्दः स्वरूपे । प्रपातोऽतटम् । यद्वा तटे प्रपातोऽतिशयितं पतनम्॥यत्रत्येत्यादि । यदीय एष महाध्वनिः सिन्धोः पर्यन्तगिरिकुञ्जेषु वर्धमानविशेषगलध्वनिसाम्यं गच्छति । तस्य गजास्यत्वेन गभी- रध्वनित्वात् । कीदृशः । जलपूर्णगभीरनवमेघध्वनिवत्प्रचण्डः । ‘तुमुलो महति स्मृतः’ इति विश्वः ॥ ३ ॥ चन्दनं रक्तचन्दनं देवदारुर्वा उपचारात् । अन्य- थास्य मलयजलविरोधात् । अश्वकर्णो वृक्षभेदः । प्रायःशब्दः प्रभूतार्थो बाहु- ल्यार्थो वा । परिणतं पक्वम् । मालूरं बिल्वफलम् । तरुणो वृक्षभेदः । अवनद्धो धृतः । उद्गारः प्रतिशब्दः । गोदावरी नदीभेदः । मेखला नितम्बः । भूधरान्मल- यादीन् । सौदामिन्या दक्षिणदेशवासित्वेन स्मरणम् । मधुमतीसिन्ध्वोर्नद्योः संभेदः संगमस्तस्य पावनः पावित्र्यहेतुः । स्वयंभूसंनिधानस्य महातीर्थहेतुत्वात् । अपरिमिताज्ञाता पुरुषकृता प्रतिष्ठा स्थितिर्यस्य । एतेन स्वयंभूत्वमुक्तम् । आस्थानं प्रसिद्धिः॥अदृष्टार्थे शिवनुतिमाह--जयेति । भुवनानां कार्यजातानां भावन उत्पा- दक, दीव्यतीति देव द्युतियुक्त, भगवन् भगं तत्त्वज्ञानं तद्युक्त । तथाच रागद्वेषादि- रहित इत्यर्थः । स्तुतिफलमाह-अखिलवरान्भुक्तिमुक्त्यादीन्ददाति तादृशो निगमो