भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 50, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 50

४४ मालतीमाधवे मन्दारिका—१लवङ्गिका भणादि वादाअणगदेत्ति । मकरन्दः—नन्वमात्यभवनासन्नरथ्यैव बहुशः संचरावहे । तदुपपन्नमेतत् । मन्दारिका—२अणुमण्णादु महाभाओ । जाव एदं भववदो दे- वस्स मअणस्स सुचरिअं पिअसहीए लवङ्गिआए णिवेदिस्सामि । मकरन्दः—प्राप्तावसरमेतद्भवत्याः । (उत्थाय परिकामतः।) मकरन्दः—वयस्य, मध्याह्नोऽतिवर्तते । तदेहि । संस्त्यानमेव प्रविशावः । (उत्थाय परिकामतः।) माधवः—एवं हि मन्ये । घर्माम्भोविसरविवर्तनैरिदानीं मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् । तत्प्रातर्विहितविचित्रपत्ररेखा- वैदग्ध्यं जहति कपोलकुङ्कुमानि ॥ ४० ॥ १. लवङ्गिका भणति वातायनगतेति । २. अनुमन्यतां महाभागः । यावदिदं भगवतो देवस्य मदनस्य सुचरितं प्रियसख्यै लवङ्गिकायै निवेदयिष्यामि । उत्कण्ठाविनोदाय तद्रूपमलिखदिति भावः ॥ मन्दारिका । लवङ्गिका भणति वातायनगतेति ॥ एतद्गवाक्षमार्गेण दर्शनमित्यर्थः ॥ मन्दारिका । अनुमन्यतां महाभागः यावदिदं भगवतोऽप्रतिहतभावस्य देवस्याशक्यसंघटनेदृशमिथुनसंघ- टनानुगुणव्यापाराहमकक्रीडावतो मदनस्य सुचरितमन्योन्याकृतिनिर्माणहेतुपरस्प- रानुरागलक्षणं लवङ्गिकायै निवेदयिष्यामि । तथैवाहमत्र नियुक्ता, तमिमं वृत्तान्तं तस्यै निवेदयामि । सा पुनर्यथोचितमाचरिष्यतीति भावः ॥ मकरन्दः—प्रा- प्तेति । भवत्या । एतन्माधवालोकितस्य दृढीकृततदनुरागस्य तदभिलिखितमा- लतीरूपसंपादयिष्यमाणमालतीमनःप्रत्ययस्यास्य प्रतिच्छन्दकस्य लवङ्गिकायै नि- वेदनं प्राप्तोऽवसरो यस्य तत् । अवसरोचितमित्यर्थः ॥ संस्त्यानं सदनम् ॥ धर्माम्भ इत्यादि । मुग्धे सुन्दरे अक्षिणी यस्यास्तस्याः परिचारिकाणां वारविलासिनीनां कपोलकुङ्कुमानि कर्तॄणि कपोलयोरनुलिप्तानि कुङ्कुमानि । अनेनानुलेपनविशेष उक्तः । यथा—'वैदग्ध्येनोपरचितं स्तनयोर्वा कपोलयोः । उन्मादनं नयनयोर्य- त्प्रसादनुलेपनम् ॥' इति । घर्माम्भसः स्वेदजलस्य विसरो बिन्दुसमूहस्तस्य