भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 88, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 88

चतुर्थोऽङ्कः । ८५ विदूषकः—भोदि, जदि णीदिगदं एकवि अक्खरं पढेअं, णं मए अत्तभवं पेसिदो हवे । राजा—(आत्मगतम् ।) कथं नु खल्वस्मात्संकटादात्मानं मो- चयिष्यामि । (प्रविश्य ।) जयसेना—देवं, कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पि- ङ्गलवाणरेण बलिअं तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं विअ वेवमाणा ण किंचि पकिदिं पडिवज्जइ । राजा—कष्टम् । कातरो बालभावः । इरावती—(सावेगम्।) तुँवरदु अज्जउत्तो णं समासासिदुं । मा- से संतासजणिदो विआरो वड्डु । राजा—अयमेनां संज्ञापयामि । (इति सत्वरं परिक्रामति ।) विदूषकः—साँहु रे पिङ्गलवाणर, साहु । परित्तादो तुए स- पक्खो । (निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ।) १. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रे- षितो भवेत् । २. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्रा- सिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते । ३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो विकारो वर्धताम् । ४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया स्वपक्षः । मप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु- कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते ॥ त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो विकारो वर्धताम् ॥ साधु रे पिङ्गलवानर, साधु । परित्रात- माल० ८