भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 89, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 89

८६ मालविकाग्निमित्रे मालविका—हंला, देविं चिन्तिअ वेवदि मे हिअअं। ण जाणे अदो वरं किं वा अणुहविदव्वं भविस्सदिति। (नेपथ्ये) अच्चरिअं अच्चरिअं। अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं संगद्धो तवणीआसोओ। जाव देवीए णिवेदेमि। (उभे श्रुत्वा प्रहृष्टे।) बकुलावलिका—आससिदु सही। सच्चप्पइण्णा देवी। मालविका—तेणँ हि पमदवणपालिआए पुट्ठदो होमि। बकुलावलिका—तँह। (इति निष्क्रान्ते।) इति चतुर्थोऽङ्कः। १. सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्। न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति। २. आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्ध- स्तपनीयाशोकः। यावद्देव्यै निवेदयामि। ३. आश्वसितु सखी। सत्यप्रतिज्ञा देवी। ४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः। ५. तथा। स्तया स्वपक्षः। अहमिति शेषः॥ सखि, देवीं चिन्तयित्वा वेपते मे हृदयम्: न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति॥ आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्तपनीयाशोकः। यावद्देव्यै निवेदयामि। आश्वसितु सखी॥ सत्यप्रतिज्ञा देवी। अत्र देव्यनुग्रहरूपकार्यसंग्रहणादादानं नाम संध्यङ्गमुक्तं भवति॥ तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः॥ तथा। इदं मालविकाकृतमुद्यानपालिकानुसरणमुत्तराङ्कोपयुक्तत्वाद्बिन्दुरित्यनुसंधेयम्। इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्नि- चतुर्थोऽङ्कः॥