मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 90, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ८७ पञ्चमोऽङ्कः । (ततः प्रविशत्युद्यानपालिका ।) उद्यानपालिका—उवक्खित्तो मए किदसकारविहिणो तवणी- आसोअस्स वेदिआबन्धो । जाव अणुद्विदणिओअं अत्ताणं देवीए णिवेदेमि । (परिक्रम्य ।) अहो दैवस्स अणुकम्पणीआ मालविआ । तस्सिं तह चण्डिआ देवी इमिणा असोअकुसुमवुत्तन्तेण पसादसुमुही भविस्सदि कहिं णु खु देवी हवे । (विलोक्य ।) अह्मो, एसो देवीए परिअणब्भन्तरो किंपि जदुमुद्दारुन्द्धिदं मञ्जू सं गेण्हिअ चदुस्सा- लादो कुज्जो सारसिओ णिकमदि । पुच्छिस्सं दाव णं । (उपसृत्य ।) सारसिअ, कहिं पत्थिदोसि । सारसिकः—मेहुअरिए, विज्जाभरीआणं बह्मणाणं णिच्छद- क्खिणामाडिआ पुरोहिदस्स हत्थं पावइस्सं । १. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र न खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्यन्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामति । प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि । २. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि- तस्य हस्तं प्रापयिष्यामि । कविरिदानीमङ्कान्तरमारभमाणः यथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षेपकं प्रस्तौति—ततः विशतीत्यादि । उपक्षिप्तो मया कृतसत्कारविधिस्तपनीया- शोकस्य वेदिकाबन्धः । यावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र नु खलु देवी भवेत् । अहो, एष देव्याः परिजनाभ्य- न्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामति प्रक्ष्यामि तावदेनम् सारसिक, कुत्र प्रस्थितोऽसि ॥ मधुकरिके,