मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 91, कुल 111 में से
संदर्भ में पढ़ें८८ मालविकाग्निमित्रे उद्यानपालिका—¹किंणिमिचं । सारसिकः—²जैदप्पहुदि सेणावदी जण्णतुरंगरक्खणे णिउत्तो भद्दिदारओ वसुमित्तो, तदप्पहुदि तस्स आउसणिमित्तं णिक्कसदसु- वण्णपरिमाणं दक्खिणं देवी दक्खिणीएहिं परिग्गाहेदि । उद्यानपालिका—³अह कहिं देवी । किं वा अणुचिट्ठदि । सारसिकः—⁴मङ्गलघरे आसणत्था भविअ विदब्भविसाआदो भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअंमाणं सुणादि । उद्यानपालिका—को⁵ उण विदब्भराअव्वुत्तन्तो सुणीअदि । सारसिकः—⁶वसीकिदो किल वीरसेणप्पमुहेहिं भत्तुणो विजअ- दण्डेहिं विदब्भणाहो मोइदो से दाआदो माहवसेणो । दूदो अ १. किंनिमित्तम् । २. यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको ˚वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । ३. अथ कुत्र देवी । किं वानुतिष्ठति । ४. मङ्गलगृह आसनस्था भूत्वा विदर्भविषयाद्भात्रा · वीरसेनेन प्रेषितं लेखं लेखकैर्वाच्यमानं शृणोति । ५. कः पुनर्विदर्भराजवृत्तान्तः श्रूयते । ६. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः । मोचितो- ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शि- ल्पकारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति । यिष्यामि ॥ किंनिमित्तम् ॥ यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्कशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षिणार्हः । 'कडङ्करदक्षिणाच्च च' इति छप्र- त्ययः ॥ अथ कुत्र देवी । किं वानुतिष्ठति ॥ मङ्गलगृह आसनस्था भूत्वा विदर्भ- विषयाद्भात्रा वीरसेनेन प्रेषितं लेखं लेखकैर्वाच्यमानं शृणोति । कः पुनर्विदर्भरा- जवृत्तान्तः श्रूयते ॥ वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः ।