भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 92, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 92

पञ्चमोऽङ्कः । ८९ तेण महासाराणि रअणाणि वाहणाइ सिप्पआरिआभूइट्ठं परिअणं उवाअणीकरिअ भट्ठिणो सआसं पेसिदोत्ति । उद्यानपालिका—अहं वि देवीए सआसं गच्छम्हि । तुमं वि अत्तणो णिओअं अणुचिट्ठ । (इति निष्क्रान्तौ ।) इति प्रवेशकः । (ततः प्रविशति प्रतीहारी ।) प्रतीहारी—आणत्तम्हि असोअसक्कारवावुदाए देवीए । विण्णावे- हि अज्जउत्तेण सह असोअरुक्खस्स पसूनलच्छिं पच्चक्खीकादुंति । ता जाव धम्मासणगदं देवं पडिवालेमि । (इति परिकामति ।) (नेपथ्ये वैतालिकाः ।) प्रथमः—दिष्ट्या दण्डैरेव रिपुशिरःसु वर्तते देवः । परभृतकलव्याहारेषु त्वमाचरतिर्मधुं नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् । विजयकरिणामालानत्वं गतैः प्रबलस्य ते वरद वरदारोधोवृक्षैः सहावनतो रिपुः ॥ १ ॥ १. अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ । २. आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तद्यावद्धर्मासनगतं देवं प्रतिपालयामि । मोचितोऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रत्नानि वाहनानि शिल्प- कारिकाभूयिष्ठं परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति ॥ अहमपि देव्याः सकाशं गच्छामि । त्वमप्यात्मनो नियोगमनुतिष्ठ ॥ ततः प्रविशतीत्यादि । आज्ञाप्तास्म्यशोकसत्कारव्यापृतया देव्या । विज्ञापय आर्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति । तस्माद्यावद्धर्मासनगतं देवं प्रतिपालयामि ॥ परभृतेत्यादि । स्रग्धोऽधैः ॥ विरचितेति । क्रथकैशिकान्विदर्भदेशान्मध्ये-