मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 93, कुल 111 में से
संदर्भ में पढ़ेंद्वितीयः— विरचितपदं वीरप्रीत्या सुरोपमसूरिभि- श्चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् । तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिघगुरुभिर्दोर्भिर्विष्णोः प्रसभ्य च रुक्मिणीम् ॥ २ ॥ प्रतीहारी—ऐसो जससद्दसूइदपत्थाणो भट्टा इदो एव्व आअ- च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ- न्तरिदा होमि । (इत्येकान्ते स्थिता ।) (प्रविश्य सवयस्यः ।) राजा— कान्तां विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । धाराभिर्रातप इवाभिहतं सरोजं दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥ विदूषकः—जेह अहं पेक्खामि । एकन्तसुहिदो भवं भविस्सदि। राजा—कथमिव । विदूषकः—अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा । १. एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति । अहमपि ताव- दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि । २. यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति । ३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा- धनगर्वं वहसि, तद्दर्शय मालविकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषांलंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् । कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति। अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥ कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अत्र मालविकारूपबीजानुसंधानात्संधिर्ना- म निर्वह भवति यथाहं पश्यामि एकान्तसुखितो भवान्भविष्यति ॥