मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
द्वितीयः— विरचितपदं वीरप्रीत्या सुरोपमसूरिभि- श्चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् । तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिघगुरुभिर्दोर्भिर्विष्णोः प्रसभ्य च रुक्मिणीम् ॥ २ ॥ प्रतीहारी—ऐसो जससद्दसूइदपत्थाणो भट्टा इदो एव्व आअ- च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ- न्तरिदा होमि । (इत्येकान्ते स्थिता ।) (प्रविश्य सवयस्यः ।) राजा— कान्तां विचिन्त्य सुलभेतरसंप्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च । धाराभिर्रातप इवाभिहतं सरोजं दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥ विदूषकः—जेह अहं पेक्खामि । एकन्तसुहिदो भवं भविस्सदि। राजा—कथमिव । विदूषकः—अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा । १. एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति । अहमपि ताव- दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि । २. यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति । ३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा- धनगर्वं वहसि, तद्दर्शय मालविकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषांलंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् । कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति। अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥ कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अत्र मालविकारूपबीजानुसंधानात्संधिर्ना- म निर्वह भवति यथाहं पश्यामि एकान्तसुखितो भवान्भविष्यति ॥
पञ्चमोऽङ्कः । ९१ भअवदि, जं तुमं पसाहणगव्वं वहसि, तं दंसेहि मालविआए स- रीरे विवाहुणेवच्छं ति । ताए सविसेसालंकिदा मालविआ । तत्तहोदी कदावि पूरए भवदोवि मणोरहं । राजा—सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वाचरितैः संभाव्यत एवैतत् । प्रतीहारी—(उपगम्य ।) जेदुं भट्टा । देवी विण्णावेदि । तवणी- आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु त्ति । राजा—ननु तत्रैव तिष्ठति । प्रतीहारी—^२अह इं । जहारहसंमाणसुहिअं अन्तेउरं विस- जिअ मालविआपुरोएण अत्तणो परिअणेण सह देवं पडिवालेदि । राजा—(सहर्षं विलोक्य विदूषकम् ।) जयसेने, गच्छाग्रतः । प्रतीहारी—^३एदु एदु देवो । (इति परिक्रामति ।) विदूषकः—(विलोक्य ।) भो^४ वअस्स, किंचि परिवुत्तजोव्वणो विअ वसन्तो पमदवणे लक्खीअदि । १. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद- र्शनेन ममारम्भः सफलः क्रियतामिति । २. अथ किम् । यथार्हसंमानसुखितमन्तःपुरं विसृज्य मालविकापुरो- गेणात्मनः परिजनेन सह देवं प्रतिपालयति । ३. एत्वेतु देवः । ४. भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते कथमिवेति प्रश्ने । अत्र कार्यानवेषणाद्रोधो नाम संध्यङ्गमुक्तं भवति ॥ अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसाधनगर्वं वहसि, तद्दर्शय माल- विकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती धारिणी कदाचित्पूरयेद्भवतोऽपि मनोरथम् । अत्र कार्योपदर्शनात्पूर्वभाव इति संध्य- ङ्गमुक्तं भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहदर्शनेन समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्हसंमानसुखितमन्तःपुरमव- रोधजनं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ॥ एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ॥ अग्रे
९२ मालविकाग्निमित्रे राजा—यथाह भवान् । अग्रे विकीर्णकुरवकफलजालकभिद्यमानसह्कारम् । परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ४ ॥ विदूषकः—(परिक्रम्य ।) अहो, अअं सो दिण्णणेवच्छो विअ कुसुमत्थवएहिं तवणीआसोओ । ओलोअदु भवं । राजा—स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्या- धारणीं शोभामुद्वहति । पश्य । सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् । निर्वृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥ विदूषकः—तंह । भो, वीसद्धो होहि । अम्हेसु संणिहिदेसु वि- धारिणी पासपरिवट्टिणिं मालविअं अणुमण्णेदि । राजा—(सहर्षम् ।) सखे, पश्य । मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रिया । विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥ (ततः प्रविशति धारिणी मालविका परिव्राजिका विभवतश्च परिवारः ।) मालविका—(आत्मगतम् ।) जाणामि णिमित्तं कोदुआलंकारस्स । १. अहो, अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव- लोकयतु भवान् । २. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व- परिवर्तिनीं मालविकामनुमन्यते । ३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृदयं बिसिनीप- त्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरति विकीर्णकुरबकेत्यादि । स्पष्टोऽर्थः ॥ अहो, अयं स दत्तनेपथ्य इव कुसुमस्तब- कैस्तपनीयाशोकः । अवलोकयतु भवान् ॥ सर्वाशोकतरूणामित्यादि । स्पष्टो- ऽर्थ ॥ तथा मो, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्वपरिवर्तिनीं ते मामियमिति स्पष्टोऽर्थ ॥जानामि निमित्त कौतुकाम्फा
पञ्चमोऽङ्कः । ९३ तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविअ दक्खिणेदरं वि णअणं बहुसो फुरदि । विदूषकः—१भो वअस्स, विवाहेणवेच्छेण सविसेसं खु सोहदि मालविआ । राजा—पश्याम्येनाम् । यैषा अनतिलम्बिदुकूलनिवासिनी बहुभिराभरणैः प्रतिभाति मे । उडुगणैरदयोन्मुखचन्द्रिका हतहिमैरिव चैत्रविभावरी ॥ ७ ॥ देवी—(उपेत्य ।) २जेदु अज्जउत्तो । विदूषकः—३वढ्ढदु भोदी । परिव्राजिका—विजयतां देवः । राजा—भगवति, अभिवादये । परिव्राजिका—अभिप्रेतसिद्धिरस्तु । देवी—(सस्मितम् ।) ४अज्जउत्त, एस ते अह्मेहिं तरुणीजणसहा- .स्स असोओ संकेदघरो कप्पिदो । विदूषकः—५मो, आराहिओसि । १. भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका । २. जयत्वार्यपुत्रः । ३. वर्धतां भवती । ४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः संकेतगृहं कल्पितः । ५. भोः, आराधितोऽसि । .स। तथापि मे हृदयं बिसिनीपत्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे यनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका॥ नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य- त्र, एष तेऽस्माभिस्तरुणीजनहितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-
९४ मालविकाग्निमित्रे राजा—(सव्रीडमशोकमभितः परिक्रामन् ।) नायं देव्या भाजनत्वं न नेयः सत्काराणामीदृशानामशोकः । यः सावज्ञो माधवश्रीनियोगे पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥ विदूषकः—१भो, वीसद्धो भविअ तुमं जोबणवदिं इमं देवी—२कं । विदूषकः—३भोदि, तवणीआसोअस्स कुसुमसोहम् । (सर्व उपविशन्ति ।) राजा—(मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु वियोगः । अहं रथाङ्गनामेव प्रिया सहचरीव मे । अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥ (प्रविश्य ।) कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो ऽर्हतीति । राजा—प्रवेशय ते । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह इतो भवत्यौ । १. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीमिमां पश्य । २. काम् । ३. भवति, तपनीयाशोकस्य कुसुमशोभाम् । ष्ठितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भू- नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम् रथाङ्गेत्यादि स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविष्टा
पञ्चमोऽङ्कः । ९५ प्रथमा—१हेला मदणिए, अपुव्वं इमं राउउलं पविसन्तीए पसी- ददि मे हिअअं । द्वितीया—२जोसिणीए, अत्थि खु लोअप्पवादो । आआमि सुहं दुक्खं वा हिअअसमवस्था कहेदित्ति । प्रथमा—३सो सच्चो दाणिं होदु । कञ्चुकी—एष देव्या सह देवस्तिष्ठति । उपसर्पतां भवत्यौ (उभे उपसर्पतः ।) (मालविका परिव्राजिका च चेष्ट्यौ दृष्ट्वा परस्परमवलोकयतः ।) उभे—(प्रणिपत्य ।) ४जेदुं भट्टा । जेदु भट्टिणी । (राजाज्ञया उभे उपविष्टे ।) राजा—कस्यां कलायामभिविनीते भवत्यौ । उभे—५भट्टा, संगीदे अब्भन्तरह्म । राजा—देवि, गृह्यतामनयोरन्यतरा । देवी—६मालविए, इदो पेक्ख । कदरा ते संगीदसहआरिणी रुच्चदि । १. सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति मे हृदयम् । २. ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा हृदयसमवस्था कथयतीति । ३. स सत्य इदानीं भवतु । ४. जयतु भर्ता । जयतु भट्टिनी । ५. भर्तः, संगीतेऽभ्यन्तरे स्वः । ६. मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी रोचते । दति मे हृदयम् ॥ ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा हृदयसमवस्था कथयतीति ॥ स सत्य इदानीं भवतु ॥ जयतु भर्ता। जयतु भट्टिनी ॥ भर्तः, संगीतेऽभ्यन्तरे स्वः ॥ मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी
पञ्चम अङ्क: वसुमित्र की विजय, विवाह व उपसंहार
९६ मालविकाग्निमित्रे उभे-(मालविकां दृष्ट्वा ।) १अह्मो भट्टदारिआ । (इति प्रणम्य ।) जे- दु जेदु भट्टदारिआ । (तया सह बाष्पं विकिरतः ।) (सर्वे सविस्मयमवलोकयन्ति ।) राजा-के वा भवत्यौ । का वा इयम् । उभे-२भट्ठा, एसा अह्माणं भट्टदारिआ । राजा-कथमिव । उभे-३सुणादु भट्ठा । जोसो भट्टिणा विजअदण्डेहिं विदब्भ- णाथं वसीकरिअ बन्धणादो मोइओ कुमारो माहवसेणो णाम, तस्स इअं कणीअसी भइणी मालविआ णाम । देवी-४कहं राजदारिआ इअं । चन्दणं खु मए पादुआवओ- एण दूसिदं । राजा-अथात्रभवती कथमित्थंभूता । मालविका-(निःश्वस्य । आत्मगतम् ।) ५विहिणिओएण । द्वितीया-६भत्तुदाआदवसङ्गदे भट्टदारए माहवसेणे तस्स अम- १. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । २. भर्तः, एषास्माकं भर्तृदारिका । ३. शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी माल- विका नाम । ४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् । ५. विधिनियोगेन । ६. भर्तृदायादवशंगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना- सादृशं परिजनमुज्झित्वा गूढमानीतैषा । रोचते॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ॥ भर्तः, एषास्माकं भर्तृदारिका शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कु- मारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी मालविका नाम ॥ कथं राजदारि- केयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विधिनियोगेन ॥ भर्तृदायादव-
पञ्चमोऽङ्कः । ९७ णेण अज्जसुमदिणा अह्मारिसं परिअणं उज्झिअ गूहं आणीदा एसा । राजा—श्रुतपूर्व्वं मयैतत् । ततस्ततः । द्वितीया—१भट्टा, अदो वरं ण आणीमो । परिव्राजिका—ततः परं मन्दभागिनी कथयिष्यामि । उभे—२अज्जकोसिईए विअ सरसंजोओ । मालविका—३णं सा एव । उभे—४जदिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि । भअवदि, वन्दामो । परिव्राजिका—स्वस्ति भवतीभ्याम् । राजा—कथमाप्तवर्गोऽयं भगवत्याः । परिव्राजिका—एवमेतत् । विदूषकः—५तेणं हि कहेदु भअवदी अत्तहोदीए उत्तन्तं असेसं । परिव्राजिका—(सवैक्लव्यम् ।) तावच्छ्रूयताम् । माधवसेनसचिवं ममाग्रजं सुमतिम् अवगच्छ । राजा—उपलक्षितम् । ततस्ततः । परिव्राजिका—स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ- वत्सम्बन्धापेक्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः । राजा—ततस्ततः । १. भर्तः, अतः परं न जानीमः । २. आर्य्यकौशिक्या इव स्वरसंयोगः । ३. ननु सैव । ४. यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, व- न्दावहे । ५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् । शंगते भर्तृदारके माधवसेने तस्यामात्येनार्य्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढ- मानीतैषा ॥ भर्तः, अतः परं न जानीमः ॥ आर्य्यकौशिक्या इव स्वरसंयोगः ॥ ननु सैव ॥ यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, वन्दावहे ॥ तेन माल० ९
९८ मालविकाग्निमित्रे परिव्राजिका—स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः राजा—किं चान्यत् । परिव्राजिका—ततः तूणीरपट्टपरिवद्धभुजान्तराल- मापार्णलम्बिशिखिपिच्छकलापधारि । कोदण्डपाणि निनदत्प्रतिरोधकाना- मापातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥ (मालविका भयं रूपयति ।) विदूषकः—भोदि, मा भआहि । अदिक्कन्तं खु तत्तहोदी क- हेदि । राजा—ततस्ततः । परिव्राजिका—ततो मुहूर्ते बद्धायुधास्ते पराङ्मुखीभूताः सार्थ- वाहयोद्धारस्तस्करैः । राजा—हन्त, इतः परं कष्टतरं श्रोतव्यम् । परिव्राजिका—ततः सुमतिः इमां परीप्सुर्दुर्जाते पराभिभवकातराम् । भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥ प्रथमा—अहो, हदो सुमदी । १. भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति । २. अहो, हतः सुमतिः । हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीरपट्टेत्यादि । स्पष्टोऽर्थः। भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इमामित्यादि दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिभव आक्रमणं त- स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्तुं परित्रातुमिच्छुः । ‘आपङ्ग- प्यृधामीत्’ इतीत्वम् । ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपः ‘पर्याप्तिः स्यात्परि- त्राणं हस्तधारणमित्यपि’ इत्यमरः । भर्तृप्रियः स्वामिभक्तः । प्रियैरिष्टैरसुरि- प्राणैर्भर्तुर┈┈┈┈गत प्राप्त ॥ अहो, हत सुमति ॥ अत खलु भर्तृदारि
पञ्चमोऽङ्कः । ९९ द्वितीया—अहो खु भट्ठिदारिआए इमं समवस्था संवृत्ता । (परिव्राजिका बाष्पं विसृजति ।) राजा—भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र- भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः । परिव्राजिका—ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव- दियं दुर्लभदर्शना संप्रवृत्ता । राजा—महत्खलु कृच्छ्रमनुभूतं भगवत्या । परिव्राजिका—ततो भ्रातृशरीरमभिसात्कृत्वा पुनर्नवीभूतवैध- व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते । राजा—युक्तः सज्जनस्यैष पन्थाः । ततस्ततः परिव्राजिका—सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः । मालविका—किं² णु खु संपदं भट्ठा भणादि । राजा—अहो परिभवोपहारिणो विनिपाताः । कुतः । प्रेष्यभावेन नामेयं देवीशब्दक्षमा सति । स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते ॥ १२ ॥ देवी—भ³अवदि, तुए अभिअणवदिं मालविअं अणाचक्खन्तिए असंपदं किदम् । परिव्राजिका—शान्तं पापम् । केन च कारणेन मया नैर्घृ- ण्यमवलम्बितम् । १. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता । २. किं नु खलु सांप्रतं भर्ता भणति । ३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणायासांप्रतं कृतम् । काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने- त्यादि। देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक- त्वेन उपयुज्यते किल। पत्रोर्णं वा धौतकौशेयमिव। वेत्युपमायाम् । 'उपमायां विकल्पे
१०० मालविकाग्निमित्रे देवी—किं' विअ तं कारणम् । परिव्राजिका—इयं पितरि जीवति केनापि दैवयात्रागतेन सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य- भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभाविनमादे- शमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि । राजा—युक्ता प्रतीक्षा । कञ्चुकी—देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति । विदर्भगतमनुष्ठेयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा- मीति । राजा—मौद्गल्य, तत्रभवतोर्यज्ञसेनमाधवसेनयोद्वैराज्यमिदानीम- वस्थापयितुकामोऽस्मि । तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे । नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥ कञ्चुकी—देव, एवममात्यपरिषदे निवेदयामि । (राजाङ्गुल्यानुमन्यते ।) (निष्क्रान्तः कञ्चुकी ।) प्रथमा—(जनान्तिकम् ।) भट्टदारिए, दिट्ठिआ भट्टिणा भट्टदारओ अद्धरज्जे पडिट्ठं गमइस्सिदि । १. किमिव तत्कारणम् । २. भर्तृदारिके, दिष्ट्या भर्त्रा भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते । द्वा' इत्यमरसिंहः। स्नानीयवस्त्रक्रियया स्नानीयवस्त्रकरणेन॥भगवति, त्वयाभिजनवती मालविकामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमिव तत्कारणम् ॥ तौ पृथगि- त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षिणे वरदाकूले । वरदा नाम तत्रत्या नदी तस्याः कूले उभे तीरे शिष्टां रक्षताम् ॥ भर्तृदारिके, दिष्ट्या भर्-
पञ्चमोऽङ्कः । १०१ मालविका—एदं दाव बहु मण्णिदव्वं, जं जीविदसंसआदो मुत्तो । (प्रविश्य ।) कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति । क- ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः । द्विधा विभक्तां श्रियमुद्वहन्तौ धुरं रथाश्वाविव संग्रहीतुः । तौ स्थास्यतस्ते नृपतेर्निदेशे परस्परोपग्रहानिर्विकारौ ॥ १४ ॥ राजा—तेन हि मन्त्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेखप्र- तामेवं क्रियतामिति । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य सप्राभृतकं लेखं गृ- हीत्वा पुनः प्रविष्टः ।) अनुष्ठिता प्रभोराज्ञा । अयं देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक- रोत्वेनं देवः । (राजोत्थाय सप्राभृतकं लेखं सोपचारं गृहीत्वा परिजनायार्पयति ।) (परिजनो लेखं नाट्येनोद्घाटयति ।) देवी—(आत्मगतम् ।) अंझहे, तदोमुहं एव णो हिअअं । सु- णिस्सं दाव गुरुअणस्स कुसलाणन्तरं वसुमित्तस्स वुत्तन्तं । अदिघोरे खु पुत्तओ सेनावदिणा णिउत्तो । १. एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशयान्मुक्तः । २. अहो, ततोमुखमेव नो हृदयम् । श्रोष्यामि तावद्गुरुजनस्य कुश- लानन्तरं वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः । भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ॥ एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशया- न्मुक्तः ॥ द्विधा विभक्तामित्यादि । स्पष्टोऽर्थः ॥ अंझहे इति हर्षे।ततोमुख- मेव नो हृदयम्।श्रोष्योमि तावद्गुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ- तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज-
१०२ मालविकाग्निमित्रे राजा—(उपविश्य लेखं सोपचारं गृहीत्वा वाचयति।) स्वस्ति । यज्ञ- शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमग्निमित्रं स्नेहा- त्परिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसौ राजयज्ञदीक्षितेन मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्तनियमो निरर्गलस्तुरंगो विसृष्टः, स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यव- नेन प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः । (देवी विषादं नाटयति ।) राजा—कथमीदृशं संवृत्तम् । (शेषं पुनर्वाचयति ।) ततः परान्पराजित्य वसुमित्रेण धन्विना । प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १५ ॥ देवी—ईमिणा आससिदं मे हिअअं । राजा—(शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सगरपुत्रेणेव प्रत्याहताश्वो यक्ष्ये । तदिदानीमकालहीनं विगतरोषचेतसा भवता वधूजनेन सह यज्ञसेवनायागन्तव्यमिति । राजा—अनुगृहीतोऽस्मि । परिव्राजिका—दिष्ट्या पुत्रविजयेन दम्पती वर्धेते । भर्त्रासि वीरपत्नीनां श्लाघ्यानां स्थापिता धुरि । वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥ १६ ॥ देवी—भअवदि, परितुट्ठह्नि । जं पिदरं अणुजादो मे वच्छओ। राजा—मौद्गल्य, ननु कलभेन यूथपतिरनुकृतः । १. अनेनाश्वस्तं मे हृदयम् । २. भगवति, परितुष्टास्मि । यत्पितरमनुजातो मे वत्सकः । यज्ञो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च श्रुतावश्वमेधप्रकरणे'शतेन राजपुत्रैः सह'इति॥ततः परानित्यादि। स्पष्टोऽर्थः॥ अनेनाश्वस्तं मे हृदयम् ॥ भर्त्रासीत्यादि । स्पष्टोऽर्थः ॥ भगवति,परितुष्टास्मि ।
पञ्चमोऽङ्कः । १०३ कञ्चुकी—देव, अयं कुमारः नैतावता वीरविजृम्भितेन चित्तस्य नो विस्मयमादधाति । यस्याप्रधृष्यः प्रभवस्त्वमुच्चै- रग्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥ राजा—मौद्गल्य, यज्ञसेनश्यालमुरीकृत्य मोच्यन्तां सर्वे बन्ध- नस्थाः । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।) देवी—१जयसेणे, गच्छ । इरावदिप्पमुहाणं अन्तेपुराणं पुत्तस्स वृत्तन्तं णिवेदेहि । (प्रतीहारी प्रस्थिता ।) देवी—२ऐहि दाव । प्रतीहारी—(परिवृत्य ।) ३इअ म्हि । देवी—(जनान्तिकम् ।) ४जं मए असोअदोहएणिओए मालवि- आए पडिण्णादं, तं से अदिजणं च णिवेदिअ मह वअणेण इरा- वदिं अणुणेहि । तुए अह सच्चादो णविब्भंसिदव्वेत्ति । १. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं निवेदय । २. एहि तावत् । ३. इयमस्मि । ४. यन्मयाशोकदोहदनियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभि- जने च निवेद्य मम वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न विश्रंशयितव्येति । यत्पितरमनुजातो मे वत्सकः ॥ नैतावतेति । स्पष्टोऽर्थः ॥ जयसेने गच्छ। इराव- तीप्रमुखेभ्योऽन्त पुरेभ्य पुत्रस्य वृतान्त निवेदय॥ एहि यन्मया-
१०४ मालविकाग्निमित्रे प्रतीहारी—१'जं देवी आणवेदि । (इति निष्क्रम्य पुनः प्रविश्य ।) भट्टिणि, पुत्तविजअणिमित्तेण परितोसेण अन्तेउराणं आहरणाणं म- ञ्जूसाश्चि संवृत्ता । देवी—२ऐदं किं अच्चरिअं । साहारणो खु ताणं मह अ अअं अब्भुदओ । प्रतीहारी—(जनान्तिकम् ।) ३भट्टिणि, इरावदी उण विष्णवेदि । सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदं ण जुज्जदि अ- ण्णहा कादुं ति । देवी—४भअवदि, तुए अणुमदा इच्छामि अज्जसुमदिणा पढमसं- कप्पिदं मालविअं अज्जउत्तस्स पडिवादेदुं । परिव्राजिका—इदानीमपि त्वमेवास्याः प्रभवसि । देवी—(मालविकां हस्ते गृहीत्वा ।) ५इदं अज्जउत्तो पिअणिवेदणाणु- रूवं पारितोसिअं पडिच्छदु । (राजा व्रीडां नाटयति ।) १. यद्देव्याज्ञापयति । भट्टिनि, पुत्रविजयनिमित्तेन परितोषेणान्तःपु- राणामाभरणानां मञ्जूषास्मि संवृत्ता । २. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः । ३. भट्टिनि, इरावती पुनर्विज्ञापयति । सदृशं देव्याः प्रभवन्त्याः । तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति । ४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालवि- कामार्यपुत्राय प्रतिपादयितुम् । ५. इदमार्थपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । रावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ॥यद्देव्याज्ञापयति । भट्टिनि,पुत्र- विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मञ्जूषास्मि संवृत्ता॥एतत्किमाश्च- र्यम् । साधारणः खलु तासां मम चायमभ्युदयः॥ भट्टिनि,इरावती पुनर्विज्ञापयति। सदृशं देव्याः प्रभवन्त्याः।तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति॥भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालविकामार्यपुत्राय प्रतिपादयितु- म्॥इदमार्थपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अत्र प्रीत्युत्पादनात्प्र-
पञ्चमोऽङ्कः । १०५ देवी—(सस्मितम् १) किं' अवधीरेदि अज्जउत्तो । विदूषकः—भोदि, एसो लोअववहारो । सब्वो णववरो ल- ज्जादुरो होदि । (राजा विदूषकमपेक्षते ।) विदूषकः—अह देवीए एव्व किदप्पणअविसेसं दिण्णदेवीसद्दं मालविअं अत्तभवं पडिग्गहीदुं इच्छदि । देवी—ऐदाए राजदारिआए अहिजणेण एव्व दिण्णो देवी- सद्दो । किं पुणरुत्तेण । परिव्राजिका—मा मैवम् । अप्याकरसमुत्पन्नो रत्नजातिपुरस्कृतः । जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥ देवी—(स्मृत्वा १) मरिसेदु भअवदी । अब्भुदअकहाए उइदं ण- लक्खिदं । जअसेणे, गच्छ दाव । कोसेअपत्तोण्णजुअलं उवणेहि । १ किमवधीरयत्यार्यपुत्रः । २. भवति, एष लोकव्यवहारः । सर्वो नववरो लज्जातुरो भवति । ३. अथ देव्यैव कृतप्रणयविशेषां दत्तदेवीशब्दां मालविकामत्रभवा- न्प्रतिग्रहीतुमिच्छति । ४. एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः किं पुन- रुक्तेन । ५. मर्षयतु भगवती । अभ्युदयकथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् । कौशेयपत्रोर्णयुगलमुपनय । सादो नाम संध्यङ्गमुक्तं भवति ॥किमवधीरयत्यार्यपुत्रः ॥ भवति, एष लोकव्यव- हारः । सर्वो नववरो लज्जातुरो भवति ॥ अथ देव्यैव कृतप्रणयविशेषां दत्तदेवी- शब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ॥ एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः । किं पुनरुक्तेन ॥ अप्याकरेत्यादि । स्पष्टार्थः । अत्र लब्धा- र्थस्य स्थिरीकरणात्कृतिर्नाम संध्यङ्गमुक्तं भवति ॥ मर्षयतु भगवती ॥ अभ्युदय- कथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् कौशेयपत्रोर्णयुगलमुपनय ॥यद्दे-
१०६ मालविकाग्निमित्रे प्रतीहारी—१जं देवी आणवेदि । (इति निष्क्रान्ता पत्रोर्णं गृहीत्वा पुनः प्रविश्य ।) देवि, एदम् । देवी—(मालविकामवगुण्ठनवतीं कृत्वा ।) २अज्जउत्तो दाणिं इमं प- डिच्छदु । राजा—त्वच्छासनात्प्रवृत्ता एव वयम् । (अपवार्य ।) हन्त, प्र- तिगृहीता । विदूषकः—३अँहो देवीए अणुकूलदा । (देवी परिजनमवलोकयति ।) परिजनः—(मालविकामुपैत्य ।) ४जेदु भट्टिणी । (देवी परिव्राजिकां निरीक्षते ।) परिव्राजिका—नैतच्चित्रं त्वयि । प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः । अन्यसरितामपि जलं समुद्रगाः प्रापयन्त्युदधिम् ॥ १९ ॥ (प्रविश्य ।) निपुणिका—५जेदु भट्ठा । इरावती विण्णावेदि । जं उवआ- १. यद्देव्याज्ञापयति । देवि, एतत् । २. आर्यपुत्र इदानीमिमां प्रतीच्छतु । ३. अहो देव्या अनुकूलता । ४. जयतु भट्टिनी । ५. जयतु भर्ता । इरावती विज्ञापयति । यदुपचारातिक्रमेण तदा म अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन् भर्त्रा प्रसादमात्रेण संभावयितव्येति । व्याज्ञापयति । देवि, एतत् ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु॥हन्त हर्षे । प्रतिगृ- हीता वशीकृता । अत्र वाञ्छितावाप्तेरानन्दो नाम संध्यङ्गमुक्तं भवति ॥अहो देव्या अनुकूलता ॥ जयतु भट्टिनी । अत्र बहुमानप्राप्तेर्भाषितेति संध्यङ्गमुक्तं भवति ॥ प्र- तिपक्षेणेत्यादि । स्पष्टोऽर्थ ॥जयतु भर्ता। इरावती विज्ञापयति ।यदुपचारातिक्र-
पञ्चमोऽङ्कः । १०७ रादिक्कमेण तदा सव्विणो अवरद्धा, तं सव्वं एव भत्तुणो आणुऊलं णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तुणा पसादमेत्तेण संभावाइदव्वत्ति । देवी—णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि । निपुणिका—अनुगहीदम्हि । परिव्राजिका—देव, अमुना युक्तसंबन्धेन चरितार्थं माधवसेनं सभाजयितुं गच्छामः । देवी—भअवदीए ण जुत्तं अम्हे परिच्चइदुं । राजा—भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुद्दिश्य स- भाजनाक्षराणि पातयिष्यामः । परिव्राजिका—युवयोः स्नेहात्परवानयं जनः । देवी—अज्जउत्त, किं ते भूओ पिअं उवहरामि । राजा— त्वं मे प्रसादसुमुखी भव देवि नित्य- मेतावदेव हृदये प्रतिपालनीयम् । १. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति । २. अनुगृहीतास्मि । ३. भगवत्या न युक्तमस्मान्परित्यक्तुम् । ४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि । पण तदा सर्वे अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण- मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति॥ निपुणिके, अवश्यमस्याः सेवितमा- र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि, त्वं मे मम नित्यं सर्वदा प्रसादसुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा-
१०८ मालविकाग्निमित्रे (भरतवाक्यम् ।) आशास्यमभ्यधिगमात्प्रभृति प्रजानां संपद्यते न खलु गोप्तरि नाग्निमित्रे ॥ २० ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीकालिदासस्यकृतौ मालविकाग्निमित्रे पञ्चमोऽङ्कः । क्यम् । आशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात्संप्राप्तेः । परिग्रहा- दित्यर्थः । तस्मात्प्रभृत्यारभ्याग्निमित्रेऽस्मिन्नायके गोप्तरि रक्षके सति तासांप्रजाना- माशास्यमपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न। संभवत्येवेत्यर्थः।अनेन आशास्यसिद्धिकथनरूपेण शुभशंसनात्प्रशस्तिर्नाम संध्यङ्गमुक्तं भवति । यदुक्तं— ‘प्रशस्तिः शुभशंसनम्’ इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ- शीर्वचने कर्तव्ये सति अत्र प्रजानामाशास्यसिद्धिं प्रति गोप्तुरग्निमित्रस्य कथनं तत्का- लराजोपलक्षणमिति मन्तव्यम् ॥ इति श्रीकाटयवेमभूपचिरचिते कुमा- रगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः । श्रीमत्काटयवेमस्य कृतिर्विज्ञानशालिनः । कुमारगिरिराजीया जीयादाचन्द्रतारकम् ॥