भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 168, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 168

स व्यापकपरार्थत्वव्यावृत्त्या चागुणो मतः । पुरुषोऽयमधिष्ठाता बुद्ध्यादेरगुणत्वतः ॥ भोक्ता च पुरुषस्सिद्धयेत् बुद्ध्यादेर्भोक्त्रभावतः । पुमान्न कस्यचित्कर्ता किन्तु भोक्तैव केवलम् ॥ इति सांख्यास्त्वाहुरिति न्यायरत्नाकरोदितम् । द्रष्टा वा पुरुषश्रेष्ठः बुद्ध्यादेर्दृश्यभावतः ॥ शास्त्राणां च महर्षीणामन्येषां दिव्यचक्षुषाम् । कैवल्यार्थं प्रवृत्तेश्च स्यात्पुमान् प्रकृतेः परः ॥ दुःखात्मका हि बुद्ध्यायाः स्वभावो दुरतिक्रमः । वियोगश्शक्यसंपादः पुरुषस्यातदात्मनः ॥ तस्माद्योऽस्ति स आत्मेति सिद्धः सत्त्वविलक्षणः । सुखदुःखव्यवस्थातः नाना सर्वगतश्च सः ॥ शरीरभेदाद्भेदश्चेत्स्यात्पाण्यादिविभेदतः । मध्यस्थः केवलः साक्षी द्रष्टाऽकर्तेति निश्चितः ॥ चिदभिव्यक्तिचित्सङ्गचिच्छायापत्तिलक्षणात् । संनिधेः बुद्धिरप्येषाऽचेतना चेतनायते ॥ विमृश्य शास्त्रयुक्त्यैवं कूटस्थं ज्ञानलक्षणम् । साक्षात्कृत्वाऽन्यताख्यात्याऽनन्तं कैवल्यमश्नुते । इति कापिलसिद्धान्तसिद्धः पुरुष ईरितः । प्रमेयसंग्रहोक्तं यत्तदप्यत्रोपयुज्यताम् ॥