मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 169, कुल 672 में से
संदर्भ में पढ़ें(30) वैशेषिकात्मा.
1 कणादीयात्मचर्चायां यत्तु संगृह्य भाषितम् । सम्यक् प्रशस्तपादेन क्रियते तस्य संग्रहः ॥ अप्रत्यक्षोऽपि सौक्ष्म्येण युक्त्याऽसावधिगम्यते । शब्दोपलब्ध्यनुमितश्रोत्रादि करणं पुनः ॥ कर्तृप्रयोज्यं वास्यादि करणं सर्वसम्मतम् । प्रयोजकश्च श्रोत्रादेः करणस्यानुमीयते ॥ मनश्शरीरेन्द्रियाणामज्ञत्वान्न प्रयोक्तृता । शरीरस्य न चैतन्यं भौतिकत्वाद्धटादिवत् ॥ इन्द्रियाणां न चैतन्यं करणत्वेन कल्पनात् । क्वचिद्विनष्टेष्वेतेषु विषयासन्निधावपि ॥ अनुस्मृतिः कस्य भवेत् प्रयोक्त्र्यपिचासति । मनसश्च न चैतन्यं तस्यापि करणत्वतः ॥ करणान्तरक्लृप्तौ च यौगपद्यं धियां भवेत् । परिशेषात्स्वकार्येण ज्ञानेनात्माऽधिगम्यते ॥ प्रवृत्तिश्च निवृत्तिश्च शरीरसमवायिनी । हिताहितप्राप्तिपरिहारयोग्ये क्रिये हि ते ॥ ताभ्यां प्रयत्नवान् देहस्याधिष्ठाताऽनुमीयते । प्रयत्नवान् सारथिर्हि ज्ञायते रथकर्मणा ॥ वायौ देहगृहीते तु विकृतं कर्म दृश्यते । तेन भस्त्राध्मायितेव सिद्ध्यत्यात्मेति कथ्यते ॥