मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 170, कुल 672 में से
संदर्भ में पढ़ें128 मानमेयरहस्यश्लोकवार्तिके
देहस्य वृद्धिसंभग्नक्षतसंरोहणादिभिः । गृहाध्यक्ष इवात्माऽपि देहाध्यक्षोऽनुमीयते ॥ यदिष्टादानकरणसंबन्धस्य नियामकम् । मनसः कर्म तेनापि सिद्धयत्यात्मा यथापुनः ॥ गृहकोणोपलप्रेरयितृदारकवत् तथा । दारुयन्त्रप्रयोक्तेव निमेषोन्मेषकर्मणा ॥ नायनालोचनात्पश्चाद्रसस्य स्मरणे सति । रसनं यत्क्रियते तेनात्मोभयबुद्धिमान् ॥ यथाऽनेकगवाक्षान्तर्गतेप्रेक्षक इष्यते । 2 सुखेच्छाद्वेषयत्नैश्च गुणैर्गुण्यनुमीयते ॥ विषयेन्द्रियदेहादियोगं नार्हन्ति ते गुणाः । अयावद्द्रव्यभावित्वात् तथा प्रादेशिकत्वतः ॥ अहंकारेणैकवाक्यभावाभावात्तथैवच । बाह्येन्द्रियाप्रत्यक्षत्वात् अतिरिक्ताश्रया हि ते । यथा पृथिव्यादिशब्दाः पृथिव्याद्यर्थगोचराः । तथाहंशब्द इत्यादिरीति भाष्यार्थसंग्रहः ॥
(31) नैयायिकात्मा.
1 अथ गौतमसूत्रेषु तद्भाष्ये चापि पाक्षिले । निर्णीतं यच्चात्मतत्त्वं क्रियते तस्य संग्रहः ॥