भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 171, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 171

[Header] नैयायिकात्मा 129

क्रियाकरणयोः कर्त्रा संबन्धस्यानुकीर्तनम् । व्यपदेशस्स द्विविधः प्रथमोऽयं निशम्यताम् ॥ प्रासादो ध्रियते स्तम्भैः वृक्षो मूलैश्च तिष्ठति । इत्यत्र समुदायस्यावयवेनानुकीर्तनम् ॥ तथैवान्येन चान्यस्य व्यपदेशोऽपि दृश्यते । प्रपश्यति प्रदीपेन कुठारेण प्रवृश्चति ॥ अत्रास्ति व्यपदेशोऽयं यथा पश्यति चक्षुषा । मनसा च विजानाति बुद्ध्या मीमांसते पुनः ॥ शरीरेण सुखं दुःखं तथाऽनुभवतीत्यपि । व्यपदेशस्योभयथा सिद्धेः तन्नावधार्यते ॥ किमत्रावयवेन स्यात् संघातस्यानुकीर्तनम् । अथवाऽन्येन चान्यस्येत्येवं संशयसंभवे ॥ 2 यद्दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । न्यायाचार्यकृतं सूत्रं तद्भाष्यमिह वर्ण्यते ॥ दर्शनेन गृहीतोऽर्थः स्पर्शनेनापि गृह्यते । यमद्राक्षं चक्षुषा तं स्पर्शनेन स्पृशाम्यहम् ॥ यं चास्पार्शं स्पर्शनेन तं पश्यामीह चक्षुषा । इत्येकविषयावेतौ प्रत्ययावेककर्तृकौ ॥ प्रतिसंधानविषयौ नच संघातकर्तृकौ । तथैव प्रत्ययावेतौ नेन्द्रियेणैककर्तृकौ ॥

[Footer] M.R. 17.