भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 172, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 172

30 मानमेयरहस्यश्लोकवार्तिके तयोऽसौ चक्षुषा चैव त्वचा चैकार्थलम्भुकः । अनन्यकर्तृकौ भिन्ननिमित्तौ प्रत्ययावपि ॥ यश्चापि प्रतिसन्धत्ते समानविषयाविमौ । सोऽर्थान्तरतया सिद्धः आत्मेत्याहुर्नयोत्तराः ॥ ३ अथचास्यैव सूत्रस्य तात्पर्यार्थोऽवधार्यताम् । प्रामाण्यं प्रत्यभिज्ञायाः नित्यत्वमपि चात्मनः ॥ इन्द्रियाण्यपि नाना स्युः विभिन्नविषयान्यपि । तत्तद्ग्रहणलिङ्गानि ज्ञातुस्तत्करणान्यपि ॥ भेदश्च गुणगुण्यादेः द्रव्याधिकरणा गुणाः । चेतनाश्चाप्यनियताविषयास्स्युः तथैव च ॥ स्थिराः स्युः विषयाश्चापि चक्षुरादेश्च नात्मता । एतादृशार्था बहवः तत्त्वटीकाप्रदर्शिताः ॥ ४ अथचाधुनिकन्यायाचार्यैर्योऽत्र प्रदर्शितः । निष्कर्षस्सोऽपिचात्रैव संक्षेपादवधार्यताम् ॥ प्रत्यक्षादिप्रमाणैर्यो व्यवहारस्स चात्मना । विना नित्येन नेत्येवं ततस्तस्य प्रकल्पना ॥ तत्र प्रत्यक्षमात्मानमौपवर्षाः प्रपेदिरे । अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन ॥ प्रत्यक्षत्वे कर्तृकर्मविरोधं केचिदूचिरे । लैङ्गिकत्वे कथं न स्यादात्मैवानुमिनोति हि ॥