मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 167, कुल 672 में से
संदर्भ में पढ़ेंसांख्यात्मा तस्मादादावहंकारममकारप्रहाणतः । निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम् ॥ (29) सांख्यात्मा. 1 अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते । विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत् ॥ श्रुतिर्ह्यपौरुषेयेषा कल्पादौ कपिलादिभिः । स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत् ॥ तथा स्मृतीतिहासाद्याः प्रमाणं वेदमूलकाः । प्रकृतेः पुरुषस्यापि विवेकस्तैर्विशोध्यते ॥ तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम् निरन्तरं दीर्घकालमादरेण च सेवितात् ॥ साक्षात्काराच्च विज्ञानान् मुच्यते भावनामयात् अभेदधीरुपायेयाऽन्येषामेषां तु भेदधीः ॥ 2 तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा । अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे ॥ अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत् परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत् ॥ तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता । नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः ॥