मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 174, कुल 672 में से
संदर्भ में पढ़ें132 | मानमेयरहस्यश्लोकवार्तिके अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः । अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥ स चेतनश्चिता योगात् तद्योगेन विना जडः । नार्थावभासादन्यद्धि चैतन्यं नाम विद्यते ॥ अधिकांशो मोक्षहेतुजिज्ञासायां निरूपितः । आम्रेडनं हि विदुषां भवेदालस्यकारणम् ॥ (32) मीमांसकात्मा. 1 अथ शाबरभाष्योक्तमात्मतत्त्वं विचिन्त्यते । यदेवचोपवर्षेण शारीरकनिरूपितम् ॥ नैरात्म्येनात्र चाक्षिप्ताः सर्वा एवहि चोदनाः । वेदप्रामाण्यसिद्धयर्थमात्माऽत्र प्रतिपाद्यते ॥ यजमानः स्वर्गलोकं याति यज्ञायुधीति वाक् । एतच्छरीरं यस्यासावात्मा तत्परतामियात् ॥ परैरभिहितान् पूर्वमात्महेतून्निरस्यति । न चेदहंप्रत्यये स्युर्दिश्यास्सामान्यदृष्टयः ॥ आह कोऽसावन्य आत्मा नैनं ह्युपलभामहे । एनं प्राणादिभिरुपलभामह इतीर्यते ॥ प्राणापानोच्छासनिमेषादिचेष्टितवांस्तु यः । शरीरे सोऽत्र यज्ञायुध्यादिशब्दैः विवक्षितः ॥