मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 176, कुल 672 में से
संदर्भ में पढ़ें134 मानमेयरहस्यश्लोकवार्तिके
पूर्वोपलब्धेऽभिप्रेते हीच्छा भवति कस्यचित् । नान्येन पुरुषेणोपलब्धेऽपि विषये क्वचित् ॥ अन्येद्युरुपलब्धेऽर्थेऽप्यन्येद्युर्भवति ह्यसौ । समानकर्तृका सोपलम्भेनेत्यवगम्यते ॥ यदि विज्ञानमात्रं तदुपलम्भकमिष्यते । तस्मिन्नस्तमिते कस्यान्द्येद्युरिच्छा भविष्यति ॥ विज्ञाता यदि विज्ञानात् नित्यः कश्चिदुपेयते । स एवचोपलब्धा स्यात्स भवेदेषिताऽपि च ॥ 4 अत्राह नोपपन्नेच्छेत्येष संप्रत्ययः क्व नः । विज्ञानात्तावदन्यं तं नचैवोपलभामहे ॥ नास्मिन्नसति विज्ञानसद्भावो नोपपद्यते । प्रत्यक्षसिद्धत्वादेव तत एव क्षणात्मता ॥ नच ज्ञातारि विज्ञानादन्यस्मिन् असति क्वचित् नोपपन्नाऽन्येद्युरिच्छा ज्ञाने च क्षणिकात्मनि ॥ प्रत्यक्षसिद्धत्वादेव दृष्टं नैतदपि क्वचित् । अन्येद्युरुपलब्धा यस्स एवैषिष्यतीत्यपि ॥ इदं तु दृष्टमस्माभिः क्वचिदन्यविलोकि तम् । इच्छत्यन्यः क्वचिन्नेति सन्तत्यैक्यं नियामकम् । 5 अत्रोच्यते नास्मर्तार इच्छन्तीत्युपपद्यते । नादृष्टपूर्वे स्मरणं कस्यापि हि भविष्यति ॥