मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 177, कुल 672 में से
संदर्भ में पढ़ेंमीमांसाकौमा 13. विज्ञानस्कन्धमात्रेण स्मृतिर्नैवोपपद्यते । समानायां संततावप्यैक्यं व्यक्तिषु दुर्लभम् ॥ ननु स्मृतिरपीच्छावत्पूर्वविज्ञानसन्निभम् । विज्ञानं तच्च नष्टेऽपि द्रष्टर्यन्येद्युरुद्भवत् ॥ नैवचानुपपन्नं तत् प्रत्यक्षावगतत्वतः । किंचैकस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यत् । विज्ञातं तत्संततिजेनान्येनाप्युपलभ्यते । नातत्संततिजेनान्येनेति प्रत्यक्षनिश्चितम् ॥ तस्माच्छून्याः स्कन्धघनाः इत्यर्थे ब्राह्मणं पुनः विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः ॥ तान्येवानुविनश्येन्न प्रेत्य संज्ञेति पठ्यते । 6 हेतुष्वेवं परोक्तेषु प्रतिषिद्धेषु संप्रति ॥ अहंप्रत्ययविज्ञेयः स्वयमात्मोपपायते । तथाहि प्रतिसंधानमन्येद्युरवलोकिते ॥ अपरेद्युर्हामिदमदर्शमिति दृश्यते । प्रत्यगात्मैकविषयं न परत्र प्रसर्पति ॥ यतोऽन्येद्युर्द्दष्टवतोऽपरेद्युः स्याद्विलक्षणः । तस्मात्तद्व्यतिरिक्तोऽस्ति यत्राहंशब्द ईर्यते ॥ स्मरणप्रत्यभिज्ञाने स्यातामन्यार्थगोचरे । वासनावशतः ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥