मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
मीमांसाकौमा 13. विज्ञानस्कन्धमात्रेण स्मृतिर्नैवोपपद्यते । समानायां संततावप्यैक्यं व्यक्तिषु दुर्लभम् ॥ ननु स्मृतिरपीच्छावत्पूर्वविज्ञानसन्निभम् । विज्ञानं तच्च नष्टेऽपि द्रष्टर्यन्येद्युरुद्भवत् ॥ नैवचानुपपन्नं तत् प्रत्यक्षावगतत्वतः । किंचैकस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यत् । विज्ञातं तत्संततिजेनान्येनाप्युपलभ्यते । नातत्संततिजेनान्येनेति प्रत्यक्षनिश्चितम् ॥ तस्माच्छून्याः स्कन्धघनाः इत्यर्थे ब्राह्मणं पुनः विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः ॥ तान्येवानुविनश्येन्न प्रेत्य संज्ञेति पठ्यते । 6 हेतुष्वेवं परोक्तेषु प्रतिषिद्धेषु संप्रति ॥ अहंप्रत्ययविज्ञेयः स्वयमात्मोपपायते । तथाहि प्रतिसंधानमन्येद्युरवलोकिते ॥ अपरेद्युर्हामिदमदर्शमिति दृश्यते । प्रत्यगात्मैकविषयं न परत्र प्रसर्पति ॥ यतोऽन्येद्युर्द्दष्टवतोऽपरेद्युः स्याद्विलक्षणः । तस्मात्तद्व्यतिरिक्तोऽस्ति यत्राहंशब्द ईर्यते ॥ स्मरणप्रत्यभिज्ञाने स्यातामन्यार्थगोचरे । वासनावशतः ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥
36 मानमेयरहस्यश्लोकवार्तिके 7 नन्वन्यत्राप्यहंशब्दप्रयोगो दृश्यते यथा । पुत्रोऽहमेवाहमेव देवदत्तोऽहमेवच ॥ पुमान् नीलः कृशः स्थूलः गच्छामीत्येवमादयः । अत्रोच्यते नहि वयं प्रयोगविषयं ध्वनिम् ॥ अर्थेऽन्यस्मिन् हेतुतया निर्दिशामः परंत्वमुम् । तस्माच्छब्दात्प्रत्यभिज्ञाप्रत्यक्षं प्राङ्निरूपितम् ॥ व्यतिरिक्तं प्रतीमोऽतश्चायमर्थः प्रसिद्ध्यति । वयमेवान्येद्युरिममर्थं ह्युपलभामहे ॥ वयमेव स्मरामोऽद्य ततो जानीमहे पुनः । यथाच वयमेव ह्यः वयमेवाद्यचेत्यपि ॥ ये ह्योऽद्य च न ते नष्टाः अत्रार्थे ब्राह्मणं पुनः । स वा अयमसावात्मा ह्यशीर्यो नहि शीर्यते ॥ अविनाशी वाऽयमरे आत्मानुच्छित्तिधर्मकः । इति क्षणिकविज्ञानादन्य आत्मेति निर्णयः ॥ अर्था यथोपलभ्यन्ते न तथा सन्ति किंपुनः । यथा तु नोपलभ्यन्ते तथा सन्तीति नोचितम् ॥ तथासति शशो नास्ति विषाणं तस्य विद्यते । इत्येवमवगम्येत तस्माल्लोकोत्तरं त्विदम् ॥ नचाहंप्रत्ययो मोहः बाधकानुपलम्भनात् । तस्माद्यज्ञायुधीत्युक्तस्सुखेच्छादिविलक्षणः ॥
मीमांसाकत्मा 137 8 अत्राह यदि विज्ञानादन्यद्विज्ञातृ विद्यते । अपास्य तत्तु विज्ञानं तद्विज्ञातृ निदर्श्यताम् ॥ इदं तदीदृशं चेति न त्व्यैतन्निदर्श्यते । तस्मात्ततोऽन्यदस्तीति कथं स्यादवधारणा ॥ अत्रोच्यते स्वसंवेद्यः नासावन्येन शक्यते । द्रष्टुं कथमसावन्यैः निदर्श्येतेति चिन्तय ॥ यथाच कश्चिचक्षुष्मान् स्वयं रूपं प्रपश्यति । नच शक्नोति जात्यन्धायान्यस्मै तन्निदर्शने ॥ एतावता तन्नास्तीति न केनाप्यवगम्यते । तथोपलभते चासावात्मानं पुरुषः स्वयम् ॥ नचान्यस्मै दर्शयितुं शक्नोतीन्द्रियवर्त्मतः । अन्यस्य दर्शने शक्तिः नास्ति तं पुरुषं प्रति ॥ एवमन्योऽपि पुरुषः स्वात्मानमवगच्छति । नचात्मानं परं तस्मात्सर्व एवात्मसाक्षिणः ॥ अत्रच ब्राह्मणं ह्यात्मज्योतिस्सम्राडितीक्ष्यते । अत्र स्वयं ज्योतिरयं पुरुषो भवतीत्यपि ॥ अन्येनाशक्य इत्यत्राप्यगृह्यो नहि गृह्यते । इति श्रुतं अभिप्रायोऽप्ययमेवास्य संगतः ॥ 9 उपायेन पुनः केन वाऽन्यस्मै कथ्यते त्वसौ । इत्यत्रोपायोपदेशे ब्राह्मणं पठितं यथा ॥ M.R. 18
58 मानमेयरहस्यश्लोकवार्तिके स एष नेति नेत्यात्मेति होवाचेति, तस्य तु । अयमर्थः-इदंरूप इत्यादेष्टुं न शक्यते ॥ परः पश्यति यद्रूपं तद्रूपं प्रतिषिध्यते । तस्योपदेशोपायोऽयं तत्प्रकारोऽवधार्यताम् ॥ शरीरं दृश्यतेऽन्येन तेनात्माऽत्रोपदिश्यते । नात्मा शरीरं अन्योऽस्ति शरीरादिति युक्तितः ॥ शरीरप्रतिषेधेन शारीर उपदिश्यते । प्राणादिप्रतिषेधेन तेभ्योऽप्यन्योऽवगम्यते ॥ तथा परगताः दुःखसुखाद्या अपि लिङ्गतः । परेण ह्युपलभ्यन्ते तेऽपि नात्मान इत्यपि ॥ तेषां तु प्रतिषेधेन तदन्योऽत्रोपदिश्यते । स एष नेतिनेत्यादेः अर्थ एषोऽवधारितः ॥ किंच स्वयं पश्यति यं न ततोऽन्यः पुमानिह । इत्येतदपि चात्मीयप्रवृत्त्यैवानुमीयते ॥ किंचासौ पुरुषः पूर्वमर्थानां सामिकल्पितम् । ततः प्रतिसमाधत्ते शेषांशं चानुतिष्ठति ॥ एवं प्रवृत्त्याऽप्येषोऽर्थो ज्ञायते सूक्ष्मदर्शिभिः । नूनं नित्यमनित्यानप्यवगच्छत्यसाविति ॥ 10 किंचोपदिश्यते चोपमानादात्मा यथापुनः । भवान् यादृशमात्मानं स्वयं पश्यति तादृशम् ।
२. मान-भाग: शब्द, अर्थापत्ति एवं अनुपलब्धि (अभाव) प्रमाण
पश्याम्यहमपीत्येवमुपमानेन गम्यते । यथाच काश्चिदात्मीयां वेदनां संप्रचक्षते ॥ दह्यमानस्येव मे स्यात् यात्यमानस्य वा पुनः । रुद्ध्यमानस्येव मेऽद्य भवतीति विकल्प्यते ॥ अतः स्वेनैवावगम्यमानत्वादस्ति पूरुषः । अतिरिक्तो वेदनाभ्यः तस्मादात्मा स्वयंप्रभः ॥ 11 यदुच्यते च विज्ञानमपास्यैतन्निदर्शयताम् । इति तच्चेदुपायस्य निषेधो न स युज्यते ॥ विनोपायमुपेयं तूपेतुं नैव हि शक्यते । ज्ञातव्यानामथार्थानामभ्युपायोऽयमेव हि ॥ यो यथा ज्ञायते सोऽसौ तथेत्यपिच तद्यथा । कश्शुक्लो नाम यत्रास्ति शुक्लत्वं शुक्लता च का ॥ शुक्लशब्दप्रवृत्तिस्स्याद्यत्र सा शुक्लता ह्यसौ । क्व वा तस्य प्रवृत्तिस्स्यात् यस्तच्छब्दात्प्रतीयते ॥ तत्प्रत्याख्याय विज्ञानं रूपं कस्यापि वस्तुनः । न निदर्शयितुं शक्यं ज्ञानात्सर्वं हि सिद्ध्यति ॥ प्रत्ययेऽथ प्रतीतेऽपि प्रत्ययार्थो नियोगतः । नच प्रतीतो भवति तस्मात् ज्ञानविलक्षणः ॥ प्रत्यये ह्यप्रतीतेऽपि प्रत्ययार्थः प्रतीयते । प्रत्यक्षं तन्न विज्ञानं ज्ञेयोऽध्यक्ष इतीर्यते ॥
40 मानमेयरहस्यश्लोकवार्तिके अथचापह्नवेऽवश्यवक्तव्ये ज्ञानमेव तु । अपह्नुयेतैव कामं नार्थ इत्यप्युदीरितम् ॥ 12 अथ यद्विज्ञानघन इति ब्राह्मणकीर्तनम् । भूतचैतन्यवादस्य तत्र प्रतिविधीयते ॥ अत्रैव मां हि भगवान् मोहस्यान्तमपीपदत् । इत्यस्य चोत्तरं मोहमरे न प्रब्रवीम्यहम् ॥ अविनाशी वाऽयमात्मा तथाऽनुच्छित्तिधर्मकः । मात्रासंसर्गमात्रं तु भवत्यस्येति च श्रुतम् ॥ सदसन्नाश्यनाशात्मपरिकीर्तनमूढया । चोदितः पूर्वपक्षोऽयमिति सिद्धान्तमब्रवीत् ॥ अविनाशी स्वरूपेण पुरुषः या तु नाशिता । मात्राणां साधिकाराणां भूतादीनामसौ मता ॥ तस्मान्न विज्ञानमात्रं आत्माऽन्योऽस्ति सुखादितः अहंप्रत्ययगम्यश्च नित्यः व्यापी स्वयंप्रभः ॥ इति शाबरभाष्यस्थमात्मतत्त्वं विचिन्तितम् । इतोऽप्यधिकयुक्त्यंशे वार्तिकं त्ववधार्यताम् ॥ (33) कौमारिलात्मा. 1 अथ वार्तिककारीयस्यात्मवादस्य संग्रहम् । सारांशविषयं धीरा विमृशन्तु विशुद्धये ॥
कौमारिलात्मा 141 शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः। नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति ॥ नित्यः कर्तृत्वभोक्तृत्वे प्रतिपन्नोऽपि सन् यदा । न कर्मफलसम्बन्धं भोगकालेऽवबुद्ध्यते ॥ मया तत्तु कृतं कर्म तस्येदं भुज्यते फलम् । शुभाशुभं मयैवेति तदा कोऽस्य रसो भवेत् ॥ कुर्वन्नप्यशुभं कर्म तेनैवं चिन्तयेन्नरः । न स्मरिष्यामि भोगेऽहमिति नैतद्विवर्जयेत् ॥ तत्र नित्यत्वपक्षेऽपि कृतनाशाकृतागमौ । फलतस्तुल्यरूपौ चेत् वृथा तत्प्रतिपादनम् ॥ 2 नैष दोषः न भोगे हि स्मृतिर्न उपयुज्यते । न प्रवृत्तिर्निवृत्तिर्वा भोगकाले स्मृतेर्भवेत् ॥ प्राक्प्रवृत्तेस्तु साऽस्त्येव विदुषां शास्त्रतः स्फुटा । पश्चादपिच शास्त्रज्ञाः विमृशन्त्येव केचन ॥ अपरामृश्यमानेऽपि स्वापकाले सुखाश्रये । संभोगे मृदुशय्यादौ प्राक्प्रवृत्तिश्च दृश्यते ॥ 3 तत्र नित्यविभुत्वाभ्यामात्मानो निष्क्रिया यदि सुखदुःखाविकार्याश्च कीदृशी कर्तृभोक्तृता ॥ अथ कर्तृत्ववेलायां दुःखादेश्चापि जन्मनि । प्राग्रूपादन्यथात्वं स्यात् नित्यताऽस्य विरुद्ध्यते
42 मानमेयरहस्यश्लोकवार्तिके नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वे, न ह्युच्छेदोऽस्य तावता ॥ स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥ सुखदुःखायवस्थाश्च गच्छन्नपि नरो मम । चैतन्यद्रव्यसत्तादिरूपं नैव विमुञ्चति ॥ दुःखिनः सुख्यवस्थायां नश्येयुस्सर्व एव ते । दुःखित्वं चानुवर्तेत विनाशे विक्रियात्मके ॥ तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥ 4 नैरात्म्यवादपक्षे तु पूर्वमेवावबुद्ध्यते । मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् । इति नैव प्रवृत्तिः स्यात् नच वेदप्रमाणता । जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥ ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् । निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ॥ कर्ता स एव सन्तानः ननु भोक्ता स एव नः । विज्ञानक्षणभेदस्तु त्वदवस्थान्तरैस्समः ॥ कर्तृत्वमेव दुस्साधं दीर्घकालेषु कर्मसु । सत्सु ज्ञानसहस्रेषु कुलकल्पोपमं हि तत् ॥
कौमारिलात्मा 143 व्यतिरिक्तो हि संतानो यदि नाभ्युपगम्यते । संतानिनामनित्यत्वात् कर्ता कश्चिन्न लभ्यते ॥ तस्मादत्यन्तभेदो वा कथंचिद्भिन्नताऽपिवा । संतानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ॥ नन्वन्यत्वं विदन्तोऽपि पुत्रादिफलसिद्धये । प्रवर्तन्ते यथा तद्वत् ज्ञानसंतानिनोऽपि नः ॥ अन्यत्वे च समानेऽपि यथा वंशान्तरोद्भवाः । न लभन्ते फलं तद्वत् संतानान्तरजाः क्षणाः ॥ न तावद्बुद्धिरत्रैवं, अपिचात्मफलेच्छया । पुत्रादिभरणे वृत्तिः स्यात्तदप्यत्र नास्ति ते ॥ भरणं यदपत्यानां तिर्यगादिषु दृश्यते । अज्ञानं शरणं तत्र प्राज्ञानां तु न युज्यते ॥ नच त्वमपि कृत्येषु निरन्वयविनाशतः । मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ॥ 5 देहान्तरे च संचारो बुद्धीनां नोपपद्यते । पूर्वदेहाद्बहिर्भावः नच तासां प्रतीयते ॥ वायुना प्रेर्यमाणं हि ज्वालाद्यन्यत्र संचरेत् । बुद्धेः कारणदेशात्तु प्रेरणं नास्ति केनचित् ॥ अमूर्तत्वात्स्वयं नासावुत्प्लुत्यान्यत्र गच्छति । अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥
44 मानमेयरहस्यश्लोकवार्तिके सहसा जायते तच्च सहसैव विनश्यति । सूक्ष्मरूपादियुक्तं चेत् उत्प्रेक्षामात्रमेव तत् ॥ कललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असंजातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥ यदि भूतेन्द्रियाधारा ज्ञानशक्तिः भवेत्ततः । तच्चैतन्यं प्रसज्येत नच जन्मान्तरं भवेत् ॥ परिणामविवेकाद्यैः शक्त्यभिव्यक्त्यनुग्रहात् । तेभ्य एव भवेद्बुद्धिः न बुद्ध्यन्तरपूर्विका ॥ अथाधारविनिर्मुक्ता शक्तिस्स्यात्कललादिषु । पश्चाद्विज्ञानसिद्ध्यर्थं आत्मा शक्त्यभिधो भवेत् 6 ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् । देहान्तरक्षमः कल्प्यः सोऽगच्छन्नेव योक्ष्यते ॥ शक्त्याधारप्रक्लृप्तौ वा नात्मनोऽन्यः प्रकल्प्यते । ज्वालाबुद्बुदवद्वृत्तिः नचाधाराद्विना धियाम् ॥ तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत् तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥ 7 कृतं भूतेन्द्रियाणां च चैतन्यप्रतिषेधनम् । समस्तव्यस्तसंघातविवेकपरिणामिनाम् ॥ सांख्यादिभिरशुद्धत्वात् संघातात्सन्निवेशतः । मृतवच्च शरीरत्वात् भूतत्वाद्वाह्यभूतवत् ॥
स्मरणप्रत्यभिज्ञाने भवेतां वासनावशात् । अन्यार्थविषये ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥ अहं वेद्मीत्यहंबुद्धिः ज्ञातारमधिगच्छति । तत्र स्यात् ज्ञातृ विज्ञानं तदाधारोऽथवा पुमान् ॥ गुरुः स्थूलः कृशो वाऽहं इति देहेऽपि या मतिः । भ्रान्तिस्सा भेदरूपं हि गुरु मे तदितीक्ष्यते ॥ ममात्मेति मतिर्भेदव्यपदेशेन याऽऽत्मनः । तत्रावस्थाऽऽत्मना भेदं ज्ञानस्याश्रित्य कल्पना ॥ वेदादेवात्मनास्तित्वं यो नाम प्रतिपद्यते । विरोधं वाऽऽत्मनो ब्रूयात्तं प्रति ब्राह्मणाभिधा ॥ अन्यथाऽनुपपत्तेश्च विधिनाऽऽत्मन्यपेक्षिते । अस्तित्वद्योतनादेतैः अर्थाक्षिप्तसमर्थनम् ॥ इत्यात्मवादसारांशः श्लोकवार्तिकशोधितः । अथापूर्वाधिकरणतन्त्रवार्तिकसंग्रहः ॥ 7 अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुतेष्यते ॥ सर्वत्र कार्योपलब्धेरात्मा सर्वगतो मतः । तच्च कार्यमहंबुद्धिः सुखदुःखादिधीरपि ॥ ननु लिङ्गं तदेव स्याद्देशान्तरगतेरपि । आत्मा शरीरसंमिश्रः तैरेव सह संगमात् ॥ M.R. 19
46 मानमेयरहस्यश्लोकवार्तिके तत्रतत्र सुखादीनि कार्याणि प्रतिपद्यते । युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ॥ ततस्सर्वगतत्वं स्यात् पर्याये तु शरीरवत् । अन्यथा सर्वगतता शरीरस्यापि कथ्यताम् ॥ नैवं स्वतोऽप्यमूर्तत्वात् न मूर्तैर्मिश्रताऽऽत्मनः । ततश्च तैरसंश्लिष्टः न नेतुं शक्यते क्वचित् ॥ मूर्तानामपि सूक्ष्माणां चन्द्रदीपरवित्विषाम् । न मृत्पिण्डादिभिस्साकं मिश्रणं नयनं क्वचित् ॥ स्याद्वादिभिर्मता मूर्ता बद्धा जीवास्तथाऽपि ते । शरीरसंपर्कायत्तमूर्ततारहिताः पुनः ॥ ज्वालादीनां स्पर्शवत्त्वात् वायुना चोल्मुकादिना युक्तं स्यान्नयनं वक्तुं तस्मात्सर्वगतः पुमान् ॥ 8 असर्वगतपक्षे स्यात् जीवो देहादनिर्गतः । अणुश्शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥ यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ । ततश्च सर्वगात्रस्थसुखप्राप्त्याद्यसंभवः ॥ लघुसंचारयोगेन संभवो निष्प्रमाणकः । बह्वदृष्टं कल्पनीयं यथा स्यादवधार्यताम् ॥ सद्भावोऽवयवानां च तथा तेषामनन्तता । अश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥
कौमारिलात्मा 147
अतिसंकोचविस्तारौ पुत्तिकाहस्तिदेहयोः । अन्तराभवसंचारः तज्ज्ञानाज्ञानकारणे ॥ यद्वियोजितमात्राणामङ्गानां स्फुरणं तु तत् । अभिघातप्रेरितेन वायुनेत्यवधार्यते ॥ दीपप्रभायास्संकोचविकासौ दर्शनान्मतौ । यद्वांशांरम्भनाशाभ्यामुपपत्तिस्तयोर्भवेत् ॥ अङ्गुष्ठमात्रः पुरुष इति ये च श्रुतिस्मृती । सूक्ष्मग्रहणयोग्यत्वतत्परे इति बुध्यताम् ॥ अङ्गुष्ठमात्रं पुरुषं निश्चकर्षेति यद्वचः । द्वैपायनीयं तदपि काव्यशोभानिबन्धनम् ॥ गीतादिषु हि तेनैव वर्णिताऽनेकरूपतः । सर्वत्र गतता तस्मात् आत्मानो विभवः स्थिताः 9 ननु चैवं व्योमवत्स्यात् ऐकात्म्यमिति चेन्न तत् सुखदुःखव्यवस्थातो नानेति प्रथितं हि तत् ॥ जन्ममृत्याद्यनियमात् पुंसां च बहुतोदिता । सर्वे समानदेशास्स्युरस्पर्शा हि यतस्त्विमे ॥ चैतन्यमात्रात्मकत्वाद्यविभागनिबन्धनः । ऐकात्म्यव्यवहारः स्यात् ततश्चोपनिषत्स्वपि ॥ यथा शरीरमात्रेऽपि मातृगर्भात्मवर्तिनाम् । सुखादीनां व्यवस्थैवं सर्वत्रैषा भविष्यति ॥
148 मानमेयरहस्यश्लोकवार्तिके देशव्याप्त्या यदीष्येत सुखादेरुपभोग्यता । ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥ 10 चलनादिक्रियाहीनोऽप्यसौ कर्तृत्वमात्रतः । देशान्तरप्रापणादिक्रियार्होऽतो न निष्क्रियः ॥ कर्तैव चाश्रयः तस्य कर्माप्यत्रैव च स्थितम् । अत एव स्थितं ह्येतत्कर्तृत्वं सर्वकर्मसु ॥ यदि स्वसमवैतैव शक्तिरिष्येत कर्मणाम् । तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति । कथमन्यत्रान्यशक्तिः समवैतीति चेत् शृणु । अत्यन्तभेदाभावो हि यागदानक्रियात्मनोः ॥ शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपिवा ॥ तादर्थ्येन हि शेषत्वं नाश्रयाश्रयिभावतः । राजार्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥ आत्माश्रिताङ्गपूर्वाणामेकार्थसमवायतः । प्रधानैस्सह संबन्धात् न तेषां पुरुषार्थता ॥ अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते । ततस्तत्सिद्धये भूयस्स्यादपूर्वान्तरप्रमा ॥ प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥
प्राभाकरात्मा 11 आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् । वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥ नैकरूपैव भावानामभिव्यक्तिः प्रतीयते । आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥ सर्वावाप्तिसमर्थो वा प्रकृत्याऽऽत्मा सदेष्यते । कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥ एवं विभुत्वं कर्तृत्वं भोक्तृत्वं तत्समर्थता । भाट्टसिद्धान्तानुरोधादात्मनामिह दर्शितम् ॥ (34) प्राभाकरात्मा. 1 आत्मतत्त्वं प्रकरणपञ्चिकायां निरूपितम् । श्रीमच्छाालिकनाथेन तत्त्वालोकेऽस्य संग्रहः ॥ बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रं अर्थवित्तिषु भासते ॥ भोक्ता च भोगायतनं भोगसाधनमेव च । भोग्यं भुक्तिरिति ह्यत्र भोक्ता त्वात्मेति निश्चितः॥ शरीरं भोगायतनं इन्द्रियं भोगसाधनम् । भोग्यं सुखादिकं भुक्तिः वेदनेति च विश्रुता ॥ आसु पञ्चविधास्वर्थतत्त्वं परिसमाप्यते । जरायुजं चाण्डभवं स्वेदजं च त्रिधा मतम् ॥
150 मानमेयरहस्यश्लोकवार्तिके उद्भिज्जं दैवमिति च द्विविधं तैर्न हीष्यते । इमशाने जायते वृक्ष इत्यादिस्त्वर्थवादगीः ॥ 2 प्रकाशरूप एवात्मा न स्वयं स्वस्य गोचरः । न परोक्षो न चाध्यक्षोऽपरोक्ष इति निर्णयः ॥ अतश्च मोक्षे दृषदा तौल्यमापाद्यते परैः । संवित्तिफलभागिन्यप्यात्मनीष्टा न कर्मता ॥ गन्तृवत्, परगामित्वं फलस्यास्ति विशेषणम् । आत्मा विषयसंवित्तेर्गोचरः सर्वदा ततः ॥ संवित्त्युपायोपरमे सन्मात्रं स्वापवन्मतः । विशेषोऽभिमतः कैश्चिदात्मनां स्वापमोक्षयोः ॥ संवित्तिवत्स्वतस्सिद्धमात्मानमपरे विदुः । निरूपकत्वाश्रयत्वयुता विषयता हि सा ॥ प्रकाशैकस्वरूपत्वात् स्वतो वा परतोऽपि वा । प्रकाशांशानपेक्षत्वं केचिदत्र प्रचक्षते ॥ घटादयो ह्यप्रकाशस्वरूपाः तदपेक्षिणः । विषयव्यपदेश्यास्स्युः आत्मा सर्वविलक्षणः ॥ प्रकाशतत्त्वनिष्कर्षः वासनैकनिबन्धनः । सौगतानां रीतिरन्या तार्किकाणां विलक्षणा ॥ देहादिव्यतिरिक्तत्वयुक्तयः प्राक्प्रपञ्चिताः । न विशेषः विशेषांशस्त्वियानन्यत्र विस्तरः ॥
बादरायणात्मा 19 3 जयन्तन्यायमञ्जर्यां गुरूणामात्मनिर्णयः । कृतः तस्यापि सारांशसंक्षेपात्किंचिदुच्यते ॥ गुरूणामपरोक्षोऽसावात्मा चापरसाधनः । चितिशक्तिस्वभावश्च तस्यैषा विवृतिर्यथा ॥ आत्मा ज्ञानेन जन्येन न चकास्ति घटादिवत् । अपितु स्वत एवासौ संविद्वदवगम्यते ॥ अनेककारकाधीनाऽप्येषा संवित्करोति तम् । आत्मानमेव ज्ञातारं चित्स्वभावोऽतएव सः ॥ संवित्तयैव संवेद्या यथा संवित्तथैव च । स्याद्ग्राहकतयैवात्मा ग्राह्यः ग्राह्यतया न तु ॥ तयोः प्रकाशयोर्मध्ये परोक्षो ज्ञानलक्षणः । व्यापारो जायते तस्य फलं संवित्तिरिष्यते ॥ द्वैरूप्यचोदना यैषा कर्तृता कर्मतेति च । नात्मन्यस्मिन् पक्ष इति दृश्यते न्यायमञ्जरी ॥ अहंप्रत्ययकर्तृत्वेनैव सिद्धिरिहात्मनः । अहंप्रत्ययकर्मत्वेनैवेत्याहुः कुमारिलाः ॥ (35) बादरायणात्मा 1 यत्तु लोकायतः प्राह देहान्न व्यतिरिच्यते । आत्मेति तत्र प्रत्युक्तमाचार्यैर्बादरायणैः॥
152 मानमेयरहस्यश्लोकवार्तिके एक आत्मन इत्यादिसूत्रेष्विति हि भाषितम् । श्रीशङ्करादिभिः यत्तत्सारांशोऽत्रावधार्यताम् ॥ यो मन्येतात्मधर्माणां देहभावे तु भावतः । शरीरधर्मतां सोऽसौ देहभावेऽप्यभावतः ॥ अतद्धर्मत्वमेवैषां किं न मन्येत बुद्धिमान् । अपिचैते देहधर्मवैलक्षण्यान्न देहगाः ॥ ये तु रूपादयो धर्माः यावद्देहं भवन्ति ते । प्राणचेष्टादयो न स्युः मृतावस्थे शरीरके ॥ देहधर्मश्च रूपादिः परैरप्युपलभ्यते । नत्वात्मधर्मश्चैतन्यस्मृत्यादिरिति भाव्यताम् ॥ किंच जीवति देहेऽस्मिन्त्येषां भावोऽवगम्यते । असत्यभावो निश्चेतुं तेषां नैव हि शक्यते ॥ कदाचित्पतितेऽप्यस्मिन् देहे देहान्तराश्रयात् । अनुवृत्तिर्भवेदात्मधर्माणामिति शङ्क्यते ॥ न निवर्तयितुं शक्या सहसा विपरीतधीः । इति संशयमात्रेण परपक्षो निषिद्ध्यते ॥ 2 किंच भूतेभ्य उत्पत्तिमिच्छन् धीमन्निदर्शनः । किमात्मकं पुनरिदं चैतन्यं मन्यते भवान् ॥ नहि भूतचतुष्केभ्यः किंचित्त्वं विलक्षणम् । भवान् प्रत्येति येनैतज्जायेत मदशक्तिवत् ॥
बादरायणात्मा 153 तच्चानुभवनं भूतभौतिकानां मतं यदि । विषयत्वात्तर्हि तेषां न तद्धर्मत्वमश्नुते ॥ न ह्यग्निरुष्णः स्वात्मानं दहतीत्युपगम्यते । शिक्षितस्सन्न हि नटः स्वस्कन्धमधिरोक्ष्यति ॥ अतः क्रिया विरुद्धैषा स्वात्मनीति श्रुतं बुधैः । रूपादिभिः स्वस्वरूपं विषयीक्रियते न हि ॥ नह्येवं भूतधर्मेण सता चैतन्यवस्तुना । भूतभौतिकवस्तूनां विषयीकरणं भवेत् ॥ भूतभौतिकवस्तूनि बाह्यान्याध्यात्मिकानि च । तच्चैतन्येन विषयीक्रियन्त इति सम्मतम् ॥ अतो यथैवोपलब्धेः सद्भावोऽभ्युपगम्यते । व्यतिरेकोऽप्येवमस्याः विषयेभ्योऽभ्युपेयताम् ॥ उपलब्धिस্বরূপोऽसावात्मेत्यस्माभिरिष्यते । तस्मात्तथाविधो ह्यात्मा सिद्धो देहविलक्षणः ॥ उपलब्धेरैकरूप्यान्नित्यत्वमपिचात्मनः । अहं वस्त्विदमद्राक्षमिति प्रत्यभिसन्धितः ॥ स्मृतीच्छाद्युपपत्तेश्च विज्ञानं क्षणिकं न सः । 3 युक्त्यन्तरं पुनरिदं वस्तुतस्त्ववधार्यताम् ॥ यथोपलब्धिर्भवति दीपादौ सति साधने । नैतावता दीपधर्मः सोपलब्धिर्भविष्यति ॥ M.R. 20
154 मानमेयरहस्यश्लोकवार्तिके तथैव सति देहेऽस्मिन् साधने धीर्भविष्यति । न भविष्यत्यसति च न स्याद्देहगता ततः ॥ देहेनापि नचात्यन्तमुपयोगोऽत्र दृश्यते । निश्चेष्टेऽपिच देहेऽस्मिन् दृश्यन्ते स्वाप्रसंविदः ॥ तस्माद्देहातिरिक्तत्वमनवद्यं तथाऽस्तिता । इत्यात्मचिन्ता युक्तिस्था विज्ञेया बादरायणी ॥ चैत्रस्तारक्ष्वीं स्वप्ने तनुमास्थाय बुध्यते । मानुषीमात्मनः पश्यन् तनुं तदुभयानुगम् ॥ आत्मानमनुसंधत्ते स्वयं देहविलक्षणम् । सर्वलोकप्रसिद्धोऽयं प्रत्ययोऽप्यवमृश्यताम् ॥ (36) वेदान्तात्मा. 1 अथ सर्वार्थसिद्धयुक्तः वैदिकात्मविनिर्णयः । विलिख्यते सुनिष्पन्नः विस्तरोऽन्यत्र दृश्यताम् ॥ मनुष्योऽहं कृशः स्थूलः इत्यादिसार्वलौकिकः । अभेदप्रत्ययोऽह्यस्ति नीलो घट इतीदृशः ॥ मम देहोऽप्यहमिमं जानामीत्यादिभेदधीः । अपिह्यस्ति मम क्षेत्रमित्यादिप्रत्ययो यथा ॥ लोके भेदेऽप्यभेदेन प्रत्ययो दृश्यते यथा । सेयं ज्वाला तथाचायो दहतीत्यादिलक्षणः ॥