मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 179, कुल 672 में से
संदर्भ में पढ़ेंमीमांसाकत्मा 137 8 अत्राह यदि विज्ञानादन्यद्विज्ञातृ विद्यते । अपास्य तत्तु विज्ञानं तद्विज्ञातृ निदर्श्यताम् ॥ इदं तदीदृशं चेति न त्व्यैतन्निदर्श्यते । तस्मात्ततोऽन्यदस्तीति कथं स्यादवधारणा ॥ अत्रोच्यते स्वसंवेद्यः नासावन्येन शक्यते । द्रष्टुं कथमसावन्यैः निदर्श्येतेति चिन्तय ॥ यथाच कश्चिचक्षुष्मान् स्वयं रूपं प्रपश्यति । नच शक्नोति जात्यन्धायान्यस्मै तन्निदर्शने ॥ एतावता तन्नास्तीति न केनाप्यवगम्यते । तथोपलभते चासावात्मानं पुरुषः स्वयम् ॥ नचान्यस्मै दर्शयितुं शक्नोतीन्द्रियवर्त्मतः । अन्यस्य दर्शने शक्तिः नास्ति तं पुरुषं प्रति ॥ एवमन्योऽपि पुरुषः स्वात्मानमवगच्छति । नचात्मानं परं तस्मात्सर्व एवात्मसाक्षिणः ॥ अत्रच ब्राह्मणं ह्यात्मज्योतिस्सम्राडितीक्ष्यते । अत्र स्वयं ज्योतिरयं पुरुषो भवतीत्यपि ॥ अन्येनाशक्य इत्यत्राप्यगृह्यो नहि गृह्यते । इति श्रुतं अभिप्रायोऽप्ययमेवास्य संगतः ॥ 9 उपायेन पुनः केन वाऽन्यस्मै कथ्यते त्वसौ । इत्यत्रोपायोपदेशे ब्राह्मणं पठितं यथा ॥ M.R. 18