मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 180, कुल 672 में से
संदर्भ में पढ़ें58 मानमेयरहस्यश्लोकवार्तिके स एष नेति नेत्यात्मेति होवाचेति, तस्य तु । अयमर्थः-इदंरूप इत्यादेष्टुं न शक्यते ॥ परः पश्यति यद्रूपं तद्रूपं प्रतिषिध्यते । तस्योपदेशोपायोऽयं तत्प्रकारोऽवधार्यताम् ॥ शरीरं दृश्यतेऽन्येन तेनात्माऽत्रोपदिश्यते । नात्मा शरीरं अन्योऽस्ति शरीरादिति युक्तितः ॥ शरीरप्रतिषेधेन शारीर उपदिश्यते । प्राणादिप्रतिषेधेन तेभ्योऽप्यन्योऽवगम्यते ॥ तथा परगताः दुःखसुखाद्या अपि लिङ्गतः । परेण ह्युपलभ्यन्ते तेऽपि नात्मान इत्यपि ॥ तेषां तु प्रतिषेधेन तदन्योऽत्रोपदिश्यते । स एष नेतिनेत्यादेः अर्थ एषोऽवधारितः ॥ किंच स्वयं पश्यति यं न ततोऽन्यः पुमानिह । इत्येतदपि चात्मीयप्रवृत्त्यैवानुमीयते ॥ किंचासौ पुरुषः पूर्वमर्थानां सामिकल्पितम् । ततः प्रतिसमाधत्ते शेषांशं चानुतिष्ठति ॥ एवं प्रवृत्त्याऽप्येषोऽर्थो ज्ञायते सूक्ष्मदर्शिभिः । नूनं नित्यमनित्यानप्यवगच्छत्यसाविति ॥ 10 किंचोपदिश्यते चोपमानादात्मा यथापुनः । भवान् यादृशमात्मानं स्वयं पश्यति तादृशम् ।