भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 181, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 181

पश्याम्यहमपीत्येवमुपमानेन गम्यते । यथाच काश्चिदात्मीयां वेदनां संप्रचक्षते ॥ दह्यमानस्येव मे स्यात् यात्यमानस्य वा पुनः । रुद्ध्यमानस्येव मेऽद्य भवतीति विकल्प्यते ॥ अतः स्वेनैवावगम्यमानत्वादस्ति पूरुषः । अतिरिक्तो वेदनाभ्यः तस्मादात्मा स्वयंप्रभः ॥ 11 यदुच्यते च विज्ञानमपास्यैतन्निदर्शयताम् । इति तच्चेदुपायस्य निषेधो न स युज्यते ॥ विनोपायमुपेयं तूपेतुं नैव हि शक्यते । ज्ञातव्यानामथार्थानामभ्युपायोऽयमेव हि ॥ यो यथा ज्ञायते सोऽसौ तथेत्यपिच तद्यथा । कश्शुक्लो नाम यत्रास्ति शुक्लत्वं शुक्लता च का ॥ शुक्लशब्दप्रवृत्तिस्स्याद्यत्र सा शुक्लता ह्यसौ । क्व वा तस्य प्रवृत्तिस्स्यात् यस्तच्छब्दात्प्रतीयते ॥ तत्प्रत्याख्याय विज्ञानं रूपं कस्यापि वस्तुनः । न निदर्शयितुं शक्यं ज्ञानात्सर्वं हि सिद्ध्यति ॥ प्रत्ययेऽथ प्रतीतेऽपि प्रत्ययार्थो नियोगतः । नच प्रतीतो भवति तस्मात् ज्ञानविलक्षणः ॥ प्रत्यये ह्यप्रतीतेऽपि प्रत्ययार्थः प्रतीयते । प्रत्यक्षं तन्न विज्ञानं ज्ञेयोऽध्यक्ष इतीर्यते ॥