मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 182, कुल 672 में से
संदर्भ में पढ़ें40 मानमेयरहस्यश्लोकवार्तिके अथचापह्नवेऽवश्यवक्तव्ये ज्ञानमेव तु । अपह्नुयेतैव कामं नार्थ इत्यप्युदीरितम् ॥ 12 अथ यद्विज्ञानघन इति ब्राह्मणकीर्तनम् । भूतचैतन्यवादस्य तत्र प्रतिविधीयते ॥ अत्रैव मां हि भगवान् मोहस्यान्तमपीपदत् । इत्यस्य चोत्तरं मोहमरे न प्रब्रवीम्यहम् ॥ अविनाशी वाऽयमात्मा तथाऽनुच्छित्तिधर्मकः । मात्रासंसर्गमात्रं तु भवत्यस्येति च श्रुतम् ॥ सदसन्नाश्यनाशात्मपरिकीर्तनमूढया । चोदितः पूर्वपक्षोऽयमिति सिद्धान्तमब्रवीत् ॥ अविनाशी स्वरूपेण पुरुषः या तु नाशिता । मात्राणां साधिकाराणां भूतादीनामसौ मता ॥ तस्मान्न विज्ञानमात्रं आत्माऽन्योऽस्ति सुखादितः अहंप्रत्ययगम्यश्च नित्यः व्यापी स्वयंप्रभः ॥ इति शाबरभाष्यस्थमात्मतत्त्वं विचिन्तितम् । इतोऽप्यधिकयुक्त्यंशे वार्तिकं त्ववधार्यताम् ॥ (33) कौमारिलात्मा. 1 अथ वार्तिककारीयस्यात्मवादस्य संग्रहम् । सारांशविषयं धीरा विमृशन्तु विशुद्धये ॥