मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 178, कुल 672 में से
संदर्भ में पढ़ें36 मानमेयरहस्यश्लोकवार्तिके 7 नन्वन्यत्राप्यहंशब्दप्रयोगो दृश्यते यथा । पुत्रोऽहमेवाहमेव देवदत्तोऽहमेवच ॥ पुमान् नीलः कृशः स्थूलः गच्छामीत्येवमादयः । अत्रोच्यते नहि वयं प्रयोगविषयं ध्वनिम् ॥ अर्थेऽन्यस्मिन् हेतुतया निर्दिशामः परंत्वमुम् । तस्माच्छब्दात्प्रत्यभिज्ञाप्रत्यक्षं प्राङ्निरूपितम् ॥ व्यतिरिक्तं प्रतीमोऽतश्चायमर्थः प्रसिद्ध्यति । वयमेवान्येद्युरिममर्थं ह्युपलभामहे ॥ वयमेव स्मरामोऽद्य ततो जानीमहे पुनः । यथाच वयमेव ह्यः वयमेवाद्यचेत्यपि ॥ ये ह्योऽद्य च न ते नष्टाः अत्रार्थे ब्राह्मणं पुनः । स वा अयमसावात्मा ह्यशीर्यो नहि शीर्यते ॥ अविनाशी वाऽयमरे आत्मानुच्छित्तिधर्मकः । इति क्षणिकविज्ञानादन्य आत्मेति निर्णयः ॥ अर्था यथोपलभ्यन्ते न तथा सन्ति किंपुनः । यथा तु नोपलभ्यन्ते तथा सन्तीति नोचितम् ॥ तथासति शशो नास्ति विषाणं तस्य विद्यते । इत्येवमवगम्येत तस्माल्लोकोत्तरं त्विदम् ॥ नचाहंप्रत्ययो मोहः बाधकानुपलम्भनात् । तस्माद्यज्ञायुधीत्युक्तस्सुखेच्छादिविलक्षणः ॥