भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 184, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 184

42 मानमेयरहस्यश्लोकवार्तिके नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वे, न ह्युच्छेदोऽस्य तावता ॥ स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥ सुखदुःखायवस्थाश्च गच्छन्नपि नरो मम । चैतन्यद्रव्यसत्तादिरूपं नैव विमुञ्चति ॥ दुःखिनः सुख्यवस्थायां नश्येयुस्सर्व एव ते । दुःखित्वं चानुवर्तेत विनाशे विक्रियात्मके ॥ तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥ 4 नैरात्म्यवादपक्षे तु पूर्वमेवावबुद्ध्यते । मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् । इति नैव प्रवृत्तिः स्यात् नच वेदप्रमाणता । जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥ ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् । निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ॥ कर्ता स एव सन्तानः ननु भोक्ता स एव नः । विज्ञानक्षणभेदस्तु त्वदवस्थान्तरैस्समः ॥ कर्तृत्वमेव दुस्साधं दीर्घकालेषु कर्मसु । सत्सु ज्ञानसहस्रेषु कुलकल्पोपमं हि तत् ॥